________________
गा.-९
बन्धशतकप्रकरणम्
समुन्नतघनाभिनवजीमूतपटलेन रविरजनीकरकरनिकर: तिरस्क्रियते, तथापि नैकान्तेन तत्प्रभानाशः सम्पद्यते । प्रतिप्राणि| प्रसिद्धदिनरजनीविभागाभावप्रसङ्गाद् आह च-"'सुट्ठवि मेहस्स समुदए होइ पहा चंदसूराणं" इति । एवमस्यापि प्रबलज्ञानावरणोदयेनाऽप्यतिसङ्क्लिष्टनिगोदावस्थायामपि नैकान्तेन चैतन्याभावः क्रियते, अजीवत्वप्रसङ्गात्, अजीवाद्धि जीवस्य चैतन्यकृतो विशेषः तच्चैत्सर्वमपि गच्छेत् जीवोऽजीवत्वमेव प्राप्नुयात् । तस्मात् सक्लिष्टस्यापि मिथ्यादृष्टेः काचिच्चैतन्यमात्रा प्रतिपत्तव्या, सा च यद्यपि मिथ्यात्वमोहनीयोदयाद्विपर्यस्ता, तथापि चिद्रूपत्वाद् व्यवहारतो गुणत्वेन विवक्षितेत्यदोषः । जिनप्रणीतं चैकमप्यक्षरमश्रद्दधानो मिथ्यादृष्टिर्भवतीति । उक्तञ्च
'पयमक्खरं पि एक्कं पि जो न रोएइ सुत्तनिद्दिटुं । सेसं रोयंतो वि हु मिच्छट्ठिी मुणेयव्वो ॥१॥ मिथ्यात्वं च पञ्चधा अनेकप्रकारं वा भवति । तच्चोपरिष्टाद्वक्ष्याम इति ॥१॥
आयम् उपशमिकसम्यक्त्वलाभलक्षणं सादयत्यपनय(ती)त्यासादनमनन्तानुबन्धिकषायवेदनम्, नैरुक्तो यशब्दलोपः । सति हि तस्मिन्ननन्तसुखफलदो निःश्रेयसतरुबीजभूत औपशमिकसम्यक्त्वलाभो जघन्यतः समयेनोकृष्टतः षड्भिरावलिकाभिः
१. सुष्ठ्वपि मेघस्य समुदये भवति प्रभा चन्द्रसूर्ययोरिति ।। २. पदमक्षरमप्येकमपि यो न रोचयति सूत्रनिर्दिष्टम् । शेषं रोचयन्नपि खु मिथ्यादृष्टितिव्यः ॥१॥