SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ गा.-९ बन्धशतक-A प्रकरणम् सीदत्यपगच्छतीति सह आसादनेन वर्त्तत इति सासादनः । सम्यगविपर्यस्ता दृष्टिर्जिनप्रणीतवस्तुप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः सासादनश्चासौ सम्यग्दृष्टिश्चेति सासादनसम्यग्दृष्टिस्तस्य गुणस्थानं सासादनसम्यग्दृष्टिगुणस्थानम् । अथवा सहाऽऽशातनयाऽनन्तानुबन्ध्युदयलक्षणया वर्तत इति साशातनः, स चासौ सम्यग्दृष्टिश्च तस्य गुणस्थानम्, अथवा सह सम्यक्त्वलक्षणतत्त्वरसास्वादनेन वर्त्तते, सम्यक्त्वरसं नाद्यापि सर्वथा त्यजतीति कृत्वा सास्वादनः, स चासौ सम्यग्दृष्टिश्च तस्य गुणस्थानं सास्वादनसम्यग्दृष्टिगुणस्थानमिति । एतच्च यथा भवति तथोच्यते । इह गम्भीरापारसंसारसागरमध्यविपरिवर्तिजन्तुः सकलदुःखपादपबीजभूतमिथ्यात्वप्रत्ययमनन्तपुद्गलपरावर्त्ताननन्तदुःखलक्षाण्यनुभूय कथमपि तथाभव्यत्वपरिपाकवशाद् गिरिसरिदुपलघोलनाकल्पेनाऽध्यवसायविशेषरूपेणाऽनाभोगनिर्वर्तितयथाप्रवृत्तिकरणेनाऽऽयुर्वया॑नि ज्ञानावरणादीनि कर्माण्यन्त सागरोपमकोटाकोटीस्थितिकानि करोति । अत्र चान्तरे कर्ममलपटलतिरस्कृतवीर्यविशेषाणामसुमतां दुर्भेद्यः कर्कशनिबिडचिरप्ररूढगुपिलग्रन्थिवरकर्मपरिणामजनितोऽतिनिबिडरागद्वेषपरिणामरूपोऽभिन्नपूर्वो ग्रन्थिर्भवति । तदुक्तम् 'गण्ठि त्ति सुदुब्भेओ कक्खडधणरूढगूढगंठिव्व । जीवस्स कम्मजणिओ घणरागद्दोसपरिणामो ॥१॥ इमं च ग्रन्थि यावदभव्या अपि यथाप्रवृत्तिकरणेन कर्म क्षपयित्वा अनन्तशः समागच्छन्त्येव, एतदनन्तरं पुनः कश्चिदेव १. ग्रन्थिरिति सुदुर्भेद: कर्कशघनरूढगुपिलग्रन्थीव । जीवस्य कर्मजनितो धनरागद्वेषपरिणामः ॥१॥
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy