________________
बन्धशतक प्रकरणम्
इह प्राकृतशैल्या दृष्टिशब्दस्योत्तरत्रापि सम्बन्धात् "भीमो भीमसेन" इति न्यायादेकदेशेन समुदायस्य गम्यमानत्वाच्च सूचकत्वाच्च सूत्रस्येत्थमवगन्तव्यम् । मिथ्यादृष्टिगुणस्थानम् । 'सासणे 'त्ति, सासादनसम्यग्दृष्टिगुणस्थानम्, 'मिस्से 'त्ति, सम्यग् - मिथ्यादृष्टिगुणस्थानम्, 'अजए' त्ति, अयतोऽविरत इत्यनर्थान्तरम्, ततश्चाविरतसम्यग्दृष्टिगुणस्थानम्, 'देसविरए 'त्ति, देशविरतिगुणस्थानं चकारौ समुच्चये एतानि पञ्च गुणस्थानानि । शेषाणि पुनर्नव गुणस्थानानि 'संयतेषु' प्रमत्ताप्रमत्तनिवृत्त्यनिवृत्तिसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहसयोग्ययोगिलक्षणेषु भवन्ति, एते हि सर्वेऽपि संयमसामान्यं न व्यभिचरन्तीति | संयतत्वेनोक्ताः । एतेषु नव गुणस्थानानि भवन्ति, तद्यथा - प्रमत्तसंयतगुणस्थानमप्रमत्तसंयतगुणस्थानमपूर्वकरणगुणस्थानमनिवृत्तिबादरसंपरायगुणस्थानं सूक्ष्मसंपरायगुणस्थानमुपशान्तकषायवीतरागच्छद्मस्थगुणस्थानं क्षीणकषायवीतरागच्छद्मस्थगुणस्थानं सयोगिकेवलिगुणस्थानमयोगिकेवलिगुणस्थानं चेति सर्वाण्यप्येवमुक्तक्रमेण 'चतुर्दशगुणनामानि' गुणाभिधानानि 'स्थानानि' गुणस्थानानीति यावदित्यक्षरयोजना । अधुना भावार्थ उच्यते तत्र मिथ्या विपर्यस्ता दृष्टिरर्हत्प्रणीतवस्तुप्रतिपत्तिर्यस्य भक्षितहृत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत्स मिथ्यादृष्टिः, गुणा ज्ञानदर्शनचारित्ररूपा जीवस्वभावविशेषाः, तिष्ठन्ति गुणा अस्मिन्निति स्थानं ज्ञानादिगुणानामेवोपचयापचयकृतः स्वरूपभेदः, गुणानां स्थानं गुणस्थानं मिथ्यादृष्टेर्गुणस्थानं मिथ्यादृष्टिगुणस्थानम्, सास्वादनाद्यपेक्षया ज्ञानादिगुणानामपचयकृतः स्वरूपभेदो मिथ्यादृष्टिगुणस्थानम् ।
आह-यदि मिथ्यादृष्टिरसौ कथं तस्य गुणस्थानं ? विपर्यस्तदृष्टित्वाद्, गुणानां च सम्यग्बोधमूलत्वादिति, अत्रोच्यते, यद्यपि
गा.-९
३५