SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ गा.-८-९ बन्धशतकप्रकरणम् उवओगा जोगविही जीवसमासेसु वन्निया एवं । एत्तो गुणेहि सह परिगयाणि ठाणाणि मे सुणसु ॥८॥ गाथापूर्वार्द्ध विधिशब्दस्य प्रत्येकमभिसम्बन्धादुपयोगविधयो योगविधयश्च 'जीवसमासेसु' जीवस्थानेषु, 'वर्णिताः' भणिताः, 'एवम्' उक्तक्रमेणेत्यर्थः । इदमुक्तं भवति-उवओगा जोगविहीत्यादिगाथायां यत्प्रतिज्ञातमासीत्तत्रोपयोगा योगाश्च जीवस्थानेषु चिन्तिताः । साम्प्रतं पुनस्त एव गुणस्थानकेषु चिन्तनीयाः, अतः पूर्वं तावद् गुणस्थानकान्येव स्वरूपतो भेदतश्च बिभणिषुर्गाथापश्चार्द्धन पातनामाह-'एत्तो' इत्यादि, इत ऊर्ध्वं 'गुणैः-ज्ञानादिभिः सह 'परिगतानि' युक्तानि, स्थानानि 'मे' मम भणत इति गम्यते श्रृणुत यूयमिति गाथार्थः ॥८॥ भा० सुगमेवेत्तो उ गुणे मिच्छागाहा उ आह सा सुगमा । नवरं किंचि सरूवं गाहाहि इमाहि पभणामि ॥८॥ यथाप्रतिज्ञातमेवाह मिच्छाद्दिट्टीसासणमिस्से अजए य देसविरए य । नव संजएसु एवं चोद्दस गुणनामठाणाणि ॥९॥
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy