SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ गा.-७ AAA नवसु जीवस्थानकेषु चतुष्के जीवस्थानकानामेकस्मिन् जीवस्थानके यथासंख्यं योगा भवन्ति । सामान्येनैको द्वौ बन्धशतकप्रकरणम् | पंचदशेति । तत्र सूक्ष्मबादरपर्याप्तापर्याप्तभेदभिन्ना एकेन्द्रियाश्चतुर्विधा अपि, शेषास्तु द्वीन्द्रियादयोऽपर्याप्तकाः पञ्च, एतेषु | नवसु जीवस्थानकेषु सामान्येन तावदेकः काययोगो भवति । विशेषतस्तु लब्ध्या करणेन चापर्याप्तकेषु सप्तस्वप्यौदारिक मिश्रकाययोगः पर्याप्तस्य तु सूक्ष्मैकेन्द्रियस्य बादरैकेन्द्रियस्य च वायुवर्जस्यौदारिककाययोगो लभ्यते । वायोस्तु बादरपर्याप्तस्य A वैक्रियवैक्रियमिश्रकाययोगौ लभ्येते औदारिककाययोगश्च लभ्यते । एते च सर्वेऽपि सामान्यं काययोगत्वं न व्यभिचरन्तीति सामान्यतः सूत्रे एककाययोगत्वेन विवक्षिताः । जीवस्थानचतुष्के करणपर्याप्तद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासज्ञिपञ्चेन्द्रियलक्षणे द्वौ योगौ भवतः । तद्यथा-औदारिककाययोगोऽसत्यामृषवाग्योगश्च शेषास्तु न लभ्यन्तेऽसम्भवादेवेति । एकस्मिन् पर्याप्तसज्ञिपञ्चेन्द्रियलक्षणे जीवस्थाने पञ्चदशापि योगाश्चतुर्विधमनोयोगचतुर्विधवाग्योगसप्तविधकाययोगलक्षणाः पूर्वोक्ताः प्राप्यन्ते । आह-ननु शेषयोगाः पर्याप्तसज्ञिनि सम्भवन्तु, औदारिकमिश्रवैक्रियमिश्राहारकमिश्रकार्मणलक्षणास्तु कथमस्य पर्याप्तस्य । सम्भवन्त्यपर्याप्तावस्थाभावभावित्वादमीषामिति ? उच्यते, वैक्रियमिश्रस्तावद्वैकियं कृत्वा प्रयोजनसिद्धौ तत्परित्यज्य पुनरौदारिकं स्वीकुर्वतः संयतादेर्लभ्यते । अथवा यो लब्ध्या पर्याप्तः करणेन त्वपर्याप्तः, सोऽपीह पर्याप्तकग्रहणेन गृहीतः, तस्य च देवनारकेषूत्पद्यमानस्य वैक्रियमिश्रः सुप्रतीत एवेति । आहारकमिश्रस्त्वाहारकं कृत्वा तत्परित्यज्य पुनरौदारिकं स्वीकुर्वतः संयतस्यैव लभ्यते । औदारिकमिश्रकार्मणयोगौ तु केवलिनः समुद्घातगतस्य प्राप्येते । तथा चोक्तं AAAA
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy