________________
बन्धशतकप्रकरणम् ।
सास्वादनसम्यक्त्वे तु लब्ध्या पर्याप्तकाः करणेन त्वपर्याप्तका बादरैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासज्ञिपञ्चेन्द्रिया | लभ्यन्ते, सज्ञि तु लब्ध्या पर्याप्त एव करणेन त्वपर्याप्तः पर्याप्तश्च लभ्यते ।
सम्यग्मिथ्यादृष्टौ करणपर्याप्तसज्ञिपञ्चेन्द्रियलक्षणमेकमेव जीवस्थानं लभ्यते, स हि पूर्वप्रतिपन्नो न भवान्तरं सङ्कामति "न सम्ममिच्छो कुणइ कालं" इति वचनात्, प्रतिपद्यमानकस्तु पर्याप्तसज्ञिपञ्चेन्द्रिय एव भवतीति ।
मिथ्यादर्शने चतुर्दशापि जीवस्थानानि लभ्यन्ते, सर्वव्यापकत्वात्तस्येति ।
सन्नि त्ति, अत्र सञिग्रहणेन तत्प्रतिपक्षभूतोऽसङ्ग्यपि सूचितस्तत्र सञ्जिनि सज्ञिपर्याप्तापर्याप्तलक्षणं जीवस्थानद्वयं प्राप्यते, शेषाणि तु द्वादशापि जीवस्थानान्यसञ्जिनि लभ्यन्ते, मनोविकलत्वात्तेषामिति ।
'आहारे'त्ति अत्राऽप्याहारकग्रहणेन तत्प्रतिपक्षभूतोऽनाहारकोऽपि सूचितस्तत्राहारकेषु मिथ्यादर्शनवद्वाच्यम् । अनाहारकेषु त्वपर्याप्तसूक्ष्मबादरैकेन्द्रियद्वित्रिचतुरिन्द्रियसझ्यसज्ञिपञ्चेन्द्रियलक्षणानि विग्रहगतौ सप्त जीवस्थानानि लभ्यन्ते, सञ्जिपर्याप्तकोऽपि केवलिसमुद्घाते तृतीयचतुर्थपञ्चमसमयेषु सम्प्राप्यत इति गाथार्थः ॥५॥
भा० अह तिरियगई गइइंदिगाहजुयलेण मग्गठाणेसु । जीवट्ठाणगभणणं मग्गणनामा य भणियं ति ॥३४॥
१. न सम्यग्मिथ्यादृष्टिः करोति कालम् ।