________________
बन्धशतक
प्रकरणम्
औपशमिकसम्यक्त्वे पर्याप्तसङ्क्षिपञ्चेन्द्रिय एव लभ्यते, अन्यस्य तदयोगात् । अन्ये तु सञ्चिपञ्चेन्द्रियस्यापर्याप्तकस्याप्योपशमिकसम्यक्त्वं वर्णयन्ति तच्च नावगच्छामस्तथाहि अयमपर्याप्तावस्थायां तावदेतत्सम्यक्त्वं नोत्पादयति, | तथाविधविशुद्ध्यभावात्, पारभविकं तर्हि भविष्यतीति चेत् ? तदपि न युक्तिक्षमं तथाहि - यो मिथ्यादृष्टिः सन् तत्प्रथमतया औपशमिकं सम्यक्त्वमवाप्नोति स तद्भावमापन्नः कालं न करोति । यत उक्तम्
'अणबंधोदयमाउगबंधकालं च सासणो कुणइ । उवसमसम्मद्दिट्ठी चउण्हमेक्कंपि नो कुणइ ॥१॥
उपशमश्रेणौ मृत्वाऽनुत्तरसुरेषूत्पन्नस्याऽपर्याप्तकस्यैतल्लभ्यत इति चेत् ? नन्वेतदपि न बहुमन्यामहे, तस्य प्रथमसमये एव सम्यक्त्वपुद्गलोदयात्, उक्तञ्च बृहच्चूर्णावस्मिन्नेव विचारे "जो उवसम्मसम्मद्दिट्ठी उवसमसेढीए कालं करेइ, सो पढमसमये चेव सम्मत्तपुंजं उदयावलियाए छोढुण सम्मत्तपुग्गले वेएइ, तेण न उवसमसम्मद्दिट्ठी अपज्जत्तगो लब्भइ " इत्यादि । तस्मात्पर्याप्तसञ्जिलक्षणमेकमेव जीवस्थानमत्र प्राप्यत इति स्थितम् ।
१. अनन्तानुबंधिबन्धोदयमायुष्कबन्धकालं च सास्वादन: करोति । उपशमसम्यग्दृष्टिः चतुर्णां मध्ये एकमपि न करोति ॥१॥
२. य उपशमसम्यग्दृष्टिः उपशमश्रेणौ कालं करोति स प्रथमसमये एव सम्यक्त्वपुञ्जमुदयावलिकायां प्रक्षिप्य सम्यक्त्वपुद्गलान् वेदयति, तेन नोपशमसम्यग्दृष्टिरपर्याप्तको लभ्यते ।
गा.-५
२५