________________
बन्धशतक
दंसणे त्ति, दर्शनं पूर्वोक्तस्वरूपं चक्षुरचक्षुरवधिकेवलदर्शनरूपं चतुर्विधम् । तत्र चक्षुर्दर्शने पर्याप्तचतुरिन्द्रियासज्ञिसज्ञिपञ्चेन्द्रियलक्षणानि त्रीण्येव जीवस्थानानि लभ्यन्ते, अन्यत्र चक्षुष एवाभावात् । अचक्षुर्दर्शने त्वसंयमवद्वाच्यम् । अवधिदर्शने अवधिज्ञानवत्, केवलदर्शने केवलज्ञानवदिति ।। _ 'लेस'त्ति, लेश्याः कृष्णादिकाः षट् प्रतीता एव । तत्र कृष्णनीलकापोतलेश्यास्वसंयमिजीववदेव वाच्यम् । तेज:पद्मशुक्ललेश्यासु सज्ञिपञ्चेन्द्रियः पर्याप्तकोऽपर्याप्तकश्च लभ्यते, अपर्याप्तकोऽपि करणेन लभ्यते, न लब्ध्या, तदपर्याप्तकश्च प्रथमलेश्यात्रयवर्तित्वादिति । अत्र च तैजस्यां देवेभ्योऽनन्तरोत्पन्नो बादरः करणापर्याप्तक एकेन्द्रियोऽपि लभ्यते, स चाल्पकालभावित्वादिना केनचित्कारणेन 'चूर्णिकृता'नोक्त इत्यस्माभिरपि नाभिहितः ।
भव्व त्ति, अत्र च भव्यग्रहणेन भव्याभव्यौ सूचितौ तयोश्चतुर्दशापि जीवस्थानानि लभ्यन्ते, सर्वत्राऽनयोरुत्पादात् ।
'सम्मे'त्ति सम्यक्त्वग्रहणेन क्षायिकवेदकक्षायोपशमिकौपशमिकसास्वादनलक्षणानि पञ्चधा सम्यक्त्वानि तत्प्रतिपक्षभूतं मिश्रं मिथ्यात्वं च सूचितम् । तत्राद्येषु त्रिषु सम्यक्त्वेषु सज्ञिपञ्चेन्द्रियः पर्याप्तकः करणापर्याप्तकश्च लभ्यते । ___कथमेतेष्वपर्याप्तको लभ्यते इति चेत् ? उच्यते, इह कश्चित्पूर्वबद्धायुष्कः क्षायिकसम्यक्त्वं क्षिप्यमाणसम्यक्त्वपुञ्जचरमग्रासरूपं वेदकसम्यक्त्वं चोत्पाद्य गतिचतुष्टयस्यान्यतरस्यां गतावुत्पद्यमानः प्रथममपर्याप्तकः क्षायिकसम्यग्दृष्टिर्वेदकसम्यग्दृष्टिश्च लभ्यते, क्षायोपशमिकसम्यग्दृष्टिस्तु देवादिभ्योऽनन्तरमिहोत्पद्यमानस्तीर्थकरादिरपर्याप्तकः प्राप्यते इति सुप्रतीतमेवेति ।
२४