SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ बन्धशतकप्रकरणम् 'कसाय'त्ति, कषाया वक्ष्यमाणस्वरूपाः षोडश तेषु चतुर्दशापि जीवस्थानानि लभ्यन्ते । कषायाभावे वेदाभाववद्वाच्यमिति ।। 'नाणे'त्ति, ज्ञानानि मत्यादीनि वक्ष्यमाणस्वरूपाणि पञ्च, तत्र मतिश्रुतावधिषु सञ्जिपर्याप्तापर्याप्तलक्षणे द्वे जीवस्थाने लभ्येते, न शेषाणि, तेषु ज्ञानाभावात् । अपर्याप्तोऽपि करणेन गृह्यते, न लब्ध्या, तदपर्याप्तस्य मिथ्यादृष्टित्वेन ज्ञानाभावादिति । ननु सास्वादनसम्यग्दृष्टौ मतिश्रुते लभ्येते, स च पृथिव्यादिषूत्पद्यत इति वक्ष्यते, तत्कथं मतिश्रुतयो· एव जीवस्थाने प्रोच्येते ? सत्यम्, मलीमसत्वात्स इहाज्ञानित्वेन विवक्षित इत्यदोषः । ___मन:पर्यायकेवलज्ञानयोस्तु सज्ञिपञ्चेन्द्रियपर्याप्तकलक्षणमेकमेव जीवस्थानं लभ्यते, न शेषाणि, तेषु चारित्राभावात्तदभावे च प्रस्तुतज्ञानाभावादिति । केवली च यद्यपि न सञी नाप्यसञीति प्रसिद्धस्तथापि द्रव्यमनोयोगादिह सञ्जित्वेन विवक्षितः । अज्ञानानि मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानाख्यानि त्रीणि, तत्र मत्यज्ञानश्रुताज्ञानयोः सर्वाण्यपि जीवस्थानानि सम्भवन्ति, तयोमिथ्यात्वप्रत्ययत्वात्तस्य च सर्वत्र सम्भवादिति । विभङ्गज्ञाने तु सञ्जिपर्याप्तः करणापर्याप्तश्च लभ्यते । ___'संजम'त्ति, इह सूचकत्वात्सूत्रस्य संयमग्रहणेन त्रितयं सूच्यते । संयमः संयमासंयमोऽसंयमश्चेति । तत्र संयमे सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातलक्षणे, संयमासंयमे च देशविरतिरूपे सज्ञिपर्याप्तकपञ्चेन्द्रियलक्षणमेकमेव जीवस्थानं प्राप्यते, न शेषाणि, तेषु सर्वदेशविरत्योरसम्भवात्, असंयमे तु चतुर्दशापि जीवस्थानानि सम्भवन्ति, सर्वसम्भवित्वात्तस्येति । A
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy