SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ बन्धशतकप्रकरणम् स्थानव्यापकत्वात्तस्य । ___'वेदे'त्ति, वेद्यते इति वेदः, स्त्रीपुंनपुंसकभेदात् त्रिधा तत्र स्त्रीपुरुषवेदयोः पर्याप्तापर्याप्तकसञ्यसज्ञिपञ्चेन्द्रियलक्षणानि चत्वारि चत्वारि जीवस्थानानि लभ्यन्ते । अपर्याप्तकश्चात्र करणेन गृह्यते, न लब्ध्या, लब्ध्यपर्याप्तकस्य सर्वस्यैव नपुंसकत्वादिति । अन्यच्च यदत्रासञ्जिनि स्त्रीपुंसाभिधानं तत्कार्मग्रन्थिकमतेनैव द्रष्टव्यम् । सैद्धान्तिकानां त्वसज्ञिपर्याप्तोऽपर्याप्तो वा नपुंसक एव, तथा च प्रज्ञप्तिः ते' णं भंते ! असन्नियतिरिक्खजोणिया जीवा किं इत्थीवेयगा पुरिसवेयगा नपुंसगवेयगा ? गोयमा ! नो इत्थिवेयगा नो पुरिसवेयगा नपुंसगवेयगा' । मनुष्या असज्ञिनस्तु लब्ध्यपर्याप्तका एव भवन्तीत्यतस्ते निर्विवादं नपुंसका एवेत्यलं प्रसङ्गेन। नपुंसकवेदे तु चतुर्दशापि जीवस्थानानि प्राप्यन्ते, सकलजीवस्थानसम्भवित्वात्तस्य । अत्र च वेदग्रहणेन तत्प्रतिपक्षभूतो वेदाभावोऽपि सूचितः । सूचकत्वात्सूत्रस्य, ततश्च वेदाभावे सज्ञिपञ्चेन्द्रियपर्याप्तकलक्षणमेकं जीवस्थानमवाप्यते, अन्यत्र वेदाभावाभावादेवमन्यत्रापि प्रतिपक्षभावना कार्येति । १. ते भदन्त ! असज्ञिपञ्चेन्द्रियतिर्यग्योनिकाः जीवाः किं स्त्रीवेदकाः पुरुषवेदका नपुंसकवेदका: ? गौतम ! न स्त्रीवेदका न पुरुषवेदका: नपुंसकवेदकाः।
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy