________________
बन्धशतक
AAAAAA
प्यमूनीन्द्रियादिमार्गणाद्वारेषु विनेयजनानुग्रहार्थं सक्षेपतश्चिन्त्यते । - 'इंदिए'त्ति, इन्द्रो जीवस्तेन निर्वतितानीन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि पञ्च, तत्र स्पर्शनेन्द्रिये चतुर्दशापि
जीवस्थानानि लभ्यन्ते सकलभूतग्रामव्यापकत्वात्तस्य, रसनेन्द्रिये त्वेकेन्द्रियसम्भवानि चत्वारि वर्जयित्वा शेषाणि दश | जीवस्थानानि लभ्यन्ते, एकेन्द्रियेषु तस्याभावाद्, द्वीन्द्रियादिषु च सर्वत्र भावादिति, घ्राणेन्द्रिये त्वेकेन्द्रियद्वीन्द्रियसम्भवीनि षड् वर्जयित्वा शेषाण्यष्टौ लभ्यन्ते, एकेन्द्रियद्वीन्द्रियेषु तस्याभावादन्यत्र तु सर्वत्र भावादिति, चक्षुरिन्द्रियेषु चतुरिन्द्रियपञ्चेन्द्रियसम्बन्धीनि षड् लभ्यन्ते, न शेषाणि, शेषजीवेषु तस्याभावादेतेषु तु भावादिति, श्रवणेन्द्रिये पञ्चेद्रियसम्बन्धीनि चत्वारि जीवस्थानानि प्राप्यन्ते, न शेषाणि, शेषजीवेषु तस्याभावात्पञ्चेन्द्रियेषु तु भावादिति । ___ 'काए'त्ति, चीयमानत्वात्कायः । पृथिव्यप्तेजोवायुवनस्पतित्रसकायभेदात् षोढा । तत्राद्येषु पञ्चसु कायेष्वेकेन्द्रियसम्बन्धीनि चत्वारि जीवस्थानानि प्राप्यन्ते, त्रसकाये त्वेकेन्द्रियसम्भवीनि चत्वारि वर्जयित्वा शेषाणि द्वीन्द्रियादिसम्बन्धीनि दश लभ्यन्ते, द्वीन्द्रियादीनामेव त्रसत्वादिति । ___'जोए'त्ति, योगो मनोवाक्काययोगभेदात् सक्षेपतस्त्रिधा, तत्र मनोयोगे सज्ञिपञ्चेन्द्रियपर्याप्तकलक्षणमेकं जीवस्थान- मवाप्यते, तत्रैव मनसः सद्भावादिति, वाग्योगे तु पर्याप्तद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासज्ञिपञ्चेन्द्रियसज्ञिपञ्चेन्द्रियलक्षणानि पञ्च -
जीवस्थानानि लभ्यन्ते । न शेषाणि, तेषु वाग्योगाभावादिति, काययोगे तु चतुर्दशापि जीवस्थानानि लभ्यन्ते सर्वजीव