________________
बन्धशतक
प्रकरणम्
सज्ञिपञ्चेन्द्रियपर्याप्तापर्याप्तलक्षणे जीवस्थानके, शेषाणि तु न लभ्यन्ते, एकेन्द्रियादीनां तत्राभावादिति । अत्र चापर्याप्तो द्विधा सम्भवति । लब्ध्या करणेन च, तत्र योऽपर्याप्तक एव मरिष्यति न पुनः पर्याप्ती: समर्थयिष्यति स लब्ध्यपर्याप्तकः, यः पुनः करणानि शरीरेन्द्रियादीनि न तावन्निवर्त्तयति निवर्तयिष्यति च पुरस्तान्नापर्याप्तक एव मरिष्यति स करणापर्याप्तक उच्यते । तत्र नरकदेवगत्योरपर्याप्तकः करणेन गृह्यते, न लब्ध्या, लब्ध्यपर्याप्तकस्य तत्रोत्पत्तेरेवाभावात् । मनुष्यगतौ पुनरुभयथापि लभ्यत इति ।
अत्राह कश्चित्, ननु मनुष्यगतावसज्ञिपञ्चेन्द्रियापर्याप्तकमनुष्यलक्षणं तृतीयमपि जीवस्थानकं लभ्यते तत्कस्मान्नेहोक्तमिति, सत्यम्, लभ्यते, केवलं विशिष्टमनुष्यकार्याकरणात्संक्लिष्टत्वाच्च । तिर्यग्ग्रहणेन गृहीतोऽसावित्येके, अपर्याप्तक एवासौ कालं करोतीत्यल्पकालभावित्वान्न विवक्षित इत्यन्ये, तत्त्वं तु केवलिनो विदन्तीति ।
तदेवमाद्ये गतिद्वारे जीवस्थानानि साक्षादभिधाय, शेषेष्वतिदिशन्नाह-'मग्गणठाणेसेवं नेयाणि समासठाणाणि'त्ति । (समासः) सक्षेपस्तस्य स्थानानि समासस्थानानि । इह यैः स्वल्पैरपि स्थानैर्बहवोऽपि पदार्थाः सङ्क्षिप्योच्यन्ते, तानि सामान्येन समासस्थानान्यभिधीयन्ते । अत्र तु प्रस्तावात् समासस्थानत्वेन जीवस्थानान्यभिप्रेतानि । चतुर्दशभिरप्यमीभिरनन्तानामपि जीवानां सक्षिप्याऽभिधानात्, ततश्चेदमुक्तं भवति गतौ चिन्तितत्वादर्थापत्त्या शेषेष्विन्द्रियादिषु मार्गणस्थानेष्वेवमुक्तप्रकारेण ज्ञेयानि, यानि यत्र सम्भवन्ति तानि च तत्र स्वबुद्ध्या ज्ञातव्यानि समासस्थानानि जीवस्थानानीत्यर्थः । इत्थमतिदिष्टान्य
AA