________________
गा.-४
बन्धशतकप्रकरणम्
सूक्ष्मैकेन्द्रियस्थानादीनि तानि पुनश्चतुर्दशैव, यतो नैतेभ्यो बहिः संसारिणो जीवाः केऽपि वर्त्तन्त इति । कथं पुनश्चतुर्दशैवेति चेदुच्यते 'एगिदिएसु चत्तारि होति'त्ति एकं स्पर्शनलक्षणमिन्द्रियं येषां ते एकेन्द्रियास्तेषां चत्वारि स्थानानि भवन्ति । तद्यथा एकेन्द्रिया द्विविधाः, सूक्ष्मनामकर्मोदयात्सूक्ष्माः सर्वलोकव्यापिनः पृथिव्यादयः, बादरनामकर्मोदयाद् बादराः, लोकदेशवर्तिनस्ते। एवं पुनरपि सूक्ष्मा द्विविधाः, पर्याप्ता अपर्याप्ताश्च, बादरा अपि द्विविधाः, पर्याप्ता अपर्याप्ताश्च । पर्याप्तिस्वरूपं चेहैव वक्ष्यते । तदेवमेकेन्द्रियाश्चतुर्विधा अतस्तेषां स्थानान्यपि चत्वारि भवन्ति, प्रतिविशिष्टतत्स्वरूपस्यैव स्थानशब्दवाच्यत्वादिति । 'विगलिंदिएसु छच्चेव'त्ति विकलान्यसम्पूर्णानीन्द्रियाणि येषां ते विकलेन्द्रियाः । एवोऽवधारणे, चः पुनरर्थे, स च भिन्नक्रमो विकलेन्द्रियेषु पुनः षडेव स्थानानि भवन्ति । कथमिति चेदुच्यते-विकलेन्द्रियास्त्रिविधाः द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाश्चेति । पुनः प्रत्येकं पर्याप्तापर्याप्तभेदात् षोढा भवन्त्यतस्तत्स्वरूपभूतानि स्थानान्यपि षडेव तेषु भवन्तीति । पञ्च इन्द्रियाणि येषां ते पञ्चेन्द्रियास्तेष्वपि 'तथा' तेनैव प्रकारेण प्रसिद्धस्वरूपेण चत्वारि भवन्ति स्थानानि । केन प्रकारेण ? उच्यते, पञ्चेन्द्रिया द्विविधाः, सचिनोऽसज्ञिनश्च । पुनः प्रत्येकं पर्याप्तापर्याप्तभेदात्त एव चतुर्विधा इति तत्स्वरूपनिर्वृत्तानि स्थानान्यपि तेषु चत्वारि भवन्तीति । सर्वाण्यपि चतुर्दश जीवस्थानानीति गाथार्थः ॥४॥ भा० एगिदिएसु गाहा ते हि सुहुमियरअपज्जपज्जत्ता । चउभेया एगिंदी विगलदुभेया अवज्जियरा ॥३२॥
पंचिंदिएसु चउरो ठाणा सन्नी तहेव अस्सन्नी । अपज्जत्ता पज्जत्ता एवं चउदस जियट्ठाणा ॥३३॥