________________
बन्धशतक
गा.-२-३
प्रकरणम् |
विशेषप्रत्ययैर्जीवः कर्म बनातीति तदनन्तरं बन्धास्तस्मिंश्च सत्युदयो भवतीति तदनन्तरमुदयस्तस्मिंश्च सत्युदीरणा भवतीति | तदनन्तरमुदीरणा बन्धादयश्च पृथक् सिद्धाः संयोगतश्चिन्त्यत इति तदनन्तरं संयोगः । सामान्योक्तश्च बन्धः पुनर्विशेषतश्चिन्त्यत इति | तदनन्तरं बन्धविधानमिति ।
अत्राह कश्चित्, ननु यथा सामान्येन बन्धविधिमभिधाय पुनर्भेदतोऽसौ वक्ष्यते, एवमुदयोदीरणे अपि कस्मात् न । वक्ष्येते ? सत्यमेतत्, किन्तु बद्धमेवोदयादिविषयीभवतीति बन्धस्य प्रधानत्वाद् बहुवक्तव्यत्वाच्च तस्यैव भेदतोऽभिधानमित्यदोष इति गाथाद्वयार्थः ॥२-३॥ भा० एत्थ विवक्खावसओ दाराणेवं परूवणा दुविहा । संभवइ नव दुवालसभेएहिं तत्थ नव एवं ॥९॥
ठाणेसु जेसु जियगुणरूवेसुवओगदुगभेयं । जप्पच्चइओ तइयं होइ जहा तुरिययं होइ ॥१०॥ जेसुं ठाणेसुं गुणरूवेसुं बंधउदउदीरणया । एए तिगमिलणे सत्त हुंति तिण्हं पि तेसि पि ॥११॥ संजोगो इइ अडगं बंधविहाणे य नवमयं होइ । बारसदारविवक्खा नवमे दारम्मि चउह कए ॥१२॥ पयइट्ठीअणुभागप्पएसभेएहि होइ अह एसिं । दाराणां इय कमभणणकारणं सुणह इणमो त्ति ॥१३॥ तत्थ सुदुत्तरभवजलहिपडियरयणं व दुलहं लद्धं । मणुयत्तं खेत्तसुहगुरुधम्मसवणाइसामग्गी ॥१४॥