________________
गा.-२-३
बन्धशतकप्रकरणम् |
निष्पन्नो मोदकः प्रकृत्या वातमपहरति । पित्तापहर्तृद्रव्यनिष्पन्नः पित्तम् । श्लेष्मापहर्तृद्रव्यनिष्पन्नः श्लेष्माणमित्यादि । स्थित्या
A तु स एव कश्चिद्दिनमेकमवतिष्ठते, अपरस्तु दिनद्वयमन्यस्तु त्रयं यावन्मासादिकमपि कालं कश्चिदवतिष्ठते, ततः परं विनश्यति । स एवानुभागेन स्निग्धमधुरस्वलक्षणेन कश्चिदेकगुणानुभावो भवत्यपरस्तु द्विगुणानुभावोऽन्यस्तु त्रिगुणानुभाव इत्यादि । प्रदेशाः कणिक्कादिद्रव्यप्रमाणरूपास्तैः प्रदेशैः स एव कश्चिदेकप्रसृतिप्रमाणोऽपरस्तु प्रसृतिद्वयमानोऽन्यस्तु प्रसृतित्रयमान इत्यादि । एवं कर्मापि ज्ञानावारकादिपुद्गलैनिवृत्तं प्रकृत्या किञ्चिज्ज्ञानमावृणोति किञ्चिद्दर्शनं किञ्चित्तु सुखदुःखे जनयतीत्यादि, स्थित्या तु | तदेव त्रिंशत्सागरोपमकोटाकोट्यादिकालावस्थायि भवति । अनुभागतस्तु तदेवैकस्थानिकद्विस्थानिकतीव्रमन्दादिकरसयुक्तम् । प्रदेशतस्तु तदेवाल्पबहुप्रदेशनिष्पन्नं स्यादिति । एष च प्रकृत्यादिस्वभावश्चतुर्विधोऽपि कर्मण उपादानकाल एव बध्यत इति बन्धश्चतुर्विधः सिद्धो भवति । स च कर्मप्रकृतिप्राभृतादिग्रन्थेषु विस्तरेणोक्त इह तु सक्षेपतोऽभिधास्यते । अत एवोक्तं बन्धविधाने समासं सक्षेपं प्रवक्ष्यामीति ।
इह च जीवसिद्ध्यधीनत्वादुत्तरोत्तरयोगबन्धप्रत्ययादिधर्मकलापसिद्धेः पूर्वं जीवस्य लक्षणं वक्तव्यम् । तच्चोपयोग एवेति पूर्वमुपयोगस्य ग्रहणम्, तल्लक्षणोऽपि च जीवो मनोवाक्कायैरेव सर्वाश्चेष्टाः करोतीति तदनन्तरं योगग्रहणम्, योगाश्चोपशान्तमोहादिषु केवला अपि कर्मबन्धहेतुत्वेन व्याप्रियन्ते, मिथ्यादृष्ट्यादिषु पुनर्मिथ्यात्वादिसामान्यबन्धप्रत्ययसहाया इति तदनन्तरं सामान्यबन्धप्रत्ययग्रहणम्, सामान्यं च विशेषेऽवतिष्ठत इति तदनन्तरं विशेषकर्मबन्धप्रत्ययोपादानम्, तैश्च सामान्य