________________
गा.-२-३
बन्धशतकप्रकरणम्
'कम्मविवागा कम्मणमट्ठविहविचित्तकम्मनिष्फन्नं । सव्वेसि सरीराणं कारणभूयं मुणेयव्वं ॥१॥ कार्मणमेव कायस्तेन योगः कार्मणकाययोगः । तदेवं पञ्चदशापि योगाः प्ररूपिताः ।
विधानं विधिरिति विधिशब्दो भेदवचनः प्रत्येकं योज्यते, स च योजित एव । एते चोपयोगविधयो योगविधयश्च येषु जीवगुणस्थानकेषु अभिधास्यन्ते, तेषां भावार्थोऽनन्तरमेव वक्ष्यत इति नेह प्रतन्यते । होइ जह त्ति इत्यत्र स एव बन्धो विशेषहेतुभिर्ज्ञानप्रत्यनीकतादिभिर्यथा भवति, तथा पडणीयंतराए इत्यादिना सभावार्थं वक्ष्यते । जेसु ठाणेसु त्ति एतदनन्तरगाथया' योजितमेव ।।
साम्प्रतं बन्धादीनां भावार्थ उच्यते-तत्र मिथ्यात्वादिभिर्बन्धहेतुभिरञ्जनचूर्णपूर्णसमुद्गकवन्निरन्तरं पुद्गलनिचिते लोके कर्मयोग्यवर्गणापुद्गलैरात्मनो वन्य:पिण्डवदन्योन्यानुगमपरिणामात्मकः सम्बन्धो बन्धः । तेषामेव यथा स्वस्थितिबद्धानां कर्मपुद्गलानामपवर्त्तनादिकरणविशेषतः स्वभावतो वोदयसमयप्राप्तानां विपाकवेदनमुदयः । तेषामेव कर्मपुद्गलानामकालप्राप्तानामुदयावलिकातीतानां जीवसामर्थ्यविशेषादुदयावलिकायां प्रवेशनमुदीरणा, शेषयोजना कृतैव ।
बंधविहाणे य त्ति बन्धस्य विधानं भेदः प्रकृत्यादिलक्षणः । अत्र च मोदकदृष्टान्तं वर्णयन्ति । यथा वातापहर्तृद्रव्य१. कर्मविपाकात् कार्मणमष्टविधविचित्रकर्मनिष्पन्नम् । सर्वेषां शरीराणां कारणभूतं ज्ञातव्यम् ॥१॥ २. 'गाथायां' इत्यपि । ३. अतीतानां रहितानामित्यर्थः ।