SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ गा.-२-३ बन्धशतकप्रकरणम् __ अथ यथा अत्र वैक्रियमौदारिकेण मिश्रमतो वैक्रियमिश्रमिति व्यपदिश्यते, तथौदारिकमपि वैक्रियेण मिश्रमित्यौदारिकमिश्रमित्यपि कस्मान्नोच्यत इति चेत् ? तदयुक्तम्, यतो हन्त ! प्रधानेनैव व्यपदेशो भवति । वैक्रियपरित्यागकाले च बहुव्यापारत्वात्तदेव प्रधानमिति तेनैव व्यपदेशः, अत एव हि वाय्वादीनां वैक्रियमिश्रताव्यपदेशः । औदारिके हि स्थिता अमी वैक्रियमारभन्ते, ततश्च प्रारम्भकत्वेन बहुव्यापारत्वादौदारिकं प्रधानमिति तेनैव व्यपदेश औदारिकमिश्रमिति । अन्ये तु वैकियारम्भकाल एवामीषां वैक्रियमिश्रं प्रतिपद्यन्ते, प्रारभ्यमाणत्वेन वैक्रियस्य प्राधान्यविवक्षया तेनैव व्यपदेशमिच्छन्तीति भावस्तदलं प्रसङ्गेन, विस्तरार्थिना प्रज्ञापनादिटीकैव निरीक्षणीयेति ।। वैक्रियमिश्रश्चासौ कायश्च तेन योगो वैक्रियमिश्रकाययोगः । तथा चतुर्दशपूर्वविदा तथाविधकार्योत्पत्तौ विशिष्टलब्धिवशादाहियते निवर्त्यते इत्याहारकम्, अथवा आहियन्ते गृह्यन्ते तीर्थङ्करादिसमीपे सूक्ष्मा जीवादयः पदार्था अनेनेत्याहारकं तदेव कायस्तेन योग आहारककाययोगः । तथा आहारकं मिश्रं यत्रौदारिकेणेति गम्यते स आहारकमिश्रः स एव कायस्तेन योग आहारकमिश्रकाययोगः, यदा सिद्धप्रयोजनश्चतुर्दशपूर्वविदाहारकं परित्यज्यौदारिकोपादानाय प्रवर्त्तते तदौदारिकेण मिश्रमाहारकं प्राप्यते बहुव्यापारत्वेन प्रधानत्वादाहारकेण व्यपदेश इति भावः । अन्ये त्वस्यापि प्रारम्भकाल एवाहारकमिश्रं प्रतिपद्यन्ते प्रारभ्यमाणत्वेनाहारकस्य प्राधान्यविवक्षया तेनैव व्यपदेशमिच्छन्तीति हृदयम् । तथा कर्मैव कार्मणम्, अथवा कर्मणो विकारः कार्मणम्, उक्तं च
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy