________________
गा.-२-३
बन्धशतकप्रकरणम् |
AA
भेदात् । तत्रोदारं प्रधानम् उदारमेवौदारिकम् । प्राधान्यं चेह तीर्थकरगणधरशरीरापेक्षया वेदितव्यम्, ततोऽन्यस्यानुत्तरसुरशरीरस्याऽप्यनन्तगुणहीनरूपत्वात् । अथवा उदारं सातिरेकयोजनसहस्रमानत्वाच्छेषशरीरेभ्यो बृहत्प्रमाणमुदारमेवौदारिकमिति । बृहत्त्वं चास्य भवधारणीयसहजशरीरापेक्षया मन्तव्यम्, अन्यथा ह्युत्तरवैक्रियं लक्षयोजनमानमपि लभ्यत इति । औदारिकमेव चीयमानत्वात्कायस्तेन सहकारिकारणभूतेन तद्विषयो वा योग औदारिककाययोगः । तथा औदारिकं मिश्रं यत्र कार्मणेनेति गम्यते | स भवत्यौदारिकमिश्रः । उत्पत्तिदेशे ह्यनन्तरागतो जीवः प्रथमसमये कार्मणेनैवाहारयति, ततः परमौदारिकस्याऽप्यारब्धत्वादौदारिकेण कार्मणमिश्रेणाहारयति, उक्तञ्च नियुक्तिकृता
'जोएण कम्मएणं आहारेई अणंतरं जीवो । तेण परं मीसेणं जाव सरीरस्स निष्फत्ती ॥१॥ इत्यौदारिकमिश्रश्चासौ कायश्च तेन योग औदारिकमिश्रकाययोगः । तथा विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां भवं वैक्रियं, विशिष्टं कुर्वन्ति तदिति वा निपातनाद्वैक्रियं तदेव कायस्तेन योगो वैक्रियकाययोगः । तथा वैक्रियं मिश्रं यत्र कार्मणेनेति गम्यते स वैक्रियमिश्रः । अयं तु देवनारकाणामपर्याप्तावस्थायां मन्तव्यः । तथा बादरपर्याप्तकवायोः पञ्चेन्द्रियतिर्यङ्मनुष्याणां च वैक्रियलब्धिमतां वैक्रियं कृत्वा, तत्परित्यज्य पुनरौदारिकं स्वीकुर्वतामौदारिकेणापि मिश्रं वैक्रियमवाप्यत इति ।
१. योगेन कार्मणेनाहियतेऽनन्तरं जीवः । तेन परं मिश्रेण यावत् शरीरस्य निष्पत्तिः ॥१॥