________________
गा.-२-३
बन्धशतकप्रकरणम्
AA
जीव एकान्तनित्यो वा' इत्यादि, तदसत्यमिति परिभाषितम्, विराधकत्वात् । यत्पुनर्वस्तुप्रतिष्ठाशामन्तरेण स्वरूपमात्रप्रतिपादनपरं व्यवहारपतितं किञ्चिद्विकल्प्यते प्रोच्यते वा यथा-“हे देवदत्त ! घटमानय, गां देहि मह्यम्" इत्यादि, तदेतत्स्वरूपमात्रप्रतिपादनपरं व्यावहारिकं विकल्पज्ञानं वचनं वा, न सत्यं नापि मृषा किन्त्वसत्यामृषमिति परिभाषितमतो भवति । प्रस्तुतासत्यामृषमनोयोगस्य वक्ष्यमाणासत्यामृषावाग्योगस्य च विषय इति । तदेवं मनोयोगश्चतुर्की व्याख्यातः, एतव्याख्यानेन च वाग्योगोऽपि चतुर्विधो व्याख्यात एव द्रष्टव्यः । प्रायो मनोविकल्पितस्यैव वाग्विषयत्वात् । तथापि स्थानाशून्यार्थं किञ्चिद्व्याख्यायते-सतां हिता सत्या, सा चासौ वाक् चेति सत्यवाक्, तया सहकारिकारणभूतया योगः सत्यवाग्योगः । अथवा वचनगतं सत्यत्वं तत्कार्यत्वाद्योगेषूपचर्यते, ततश्च सत्यश्चासौ वाग्योगश्चेत्यपि मन्तव्यं, शेषभावार्थस्तु सत्यमनोयोगवद्वक्तव्यः, । तथा सत्याद्विपरीता असत्या, सा चासौ वाक् चेत्यसत्यवाक् तया योगोऽसत्यवाग्योगः । तथा सत्या चासावसत्या चेत्यादि पूर्ववत्कर्मधारयो बहुव्रीहिर्वा, सा चासौ वाक् चेति तया योगः सत्यासत्यवाग्योगः । तथा न विद्यते सत्यं यत्र सोऽसत्यो, न विद्यते मृषा यत्र सोऽमृषः, असत्यश्चासावमृषश्चेत्यसत्यामृषः स चासौ वाग्योगश्चेत्यसत्यामृषवाग्योगः, शेषं तु मनोयोगवत्सर्वं वाच्यमिति ४। अत्र च तृतीयचतुर्थी मनोयोगौ वाग्योगौ च परिस्थूरव्यवहारनयमतेन द्रष्टव्यौ । शुद्धनयानां तु मनोज्ञानं वचनं वा सर्वमदुष्टविवक्षापूर्वकं सत्यम् । अज्ञानादिदूषिताशयपूर्वकं त्वसत्यम् । उभयानुभयरूपं तु नास्त्येव, सत्यासत्यराशिद्वयेऽन्तरभावादिति भावनीयम् । काययोगस्तु सप्तधा-औदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्राहारकाहारकमिश्रकार्मणकाययोग