SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् पञ्चदशधा भिद्यते । तत्र मनोयोगस्तावच्चतुर्द्धा तद्यथा-सन्तो मुनयः पदार्था वा तेषां यथासङ्ख्यं मुक्तिप्रापकत्वेन यथावस्थितस्वरूपचिन्तनेन च हितः सत्यः, “अस्ति जीवः सदसद्रूपो देहमात्रव्यापक" इत्यादियथावस्थितवस्तुविकल्पनपर इत्यर्थः, सत्यश्चासौ मनोयोगश्च सत्यमनोयोगः । आह- ननु योगः परिस्पन्दक्रियारूप उक्तस्तस्य कथं सत्यादिव्यपदेश: सम्भवति तथाप्रतीतेरेवाभावात्, सत्यं, तथापि | सत्यमनोविज्ञानजनकत्वान्मनोयोगस्यापि सत्यत्वमुच्यते, कारणे कार्यधर्मोपचारादित्येवमन्यत्रापि भावनीयम् । तथा सत्यविपरीतोऽसत्यो "नास्ति जीव एकान्तसद्रूपो वा'" इत्याद्ययथावस्थितवस्तुचिन्तनपर इत्यर्थः । असत्यश्चासौ मनोयोगश्चेत्यसत्यमनोयोगः । तथा सत्यश्चासावसत्यश्चेति कृताकृतादिवत् कर्मधारयः, सत्योपलक्षितमसत्यं यत्र स तथेति बहुव्रीहिर्वा, | सत्यासत्यश्चासौ मनोयोगश्चेति सत्यासत्यमनोयोगः । इह धवखदिरपलाशादिमिश्रेषु बहुष्वशोकवृक्षेष्वशोकवनमेवेदमिति यदा विकल्पयति तदा प्रस्तुतमनोयोगविषयता, अयं हि विकल्पस्तत्राशोकवृक्षाणां सद्भावात् सत्यो, अन्येषामपि धवादीनां तत्र सद्भावादसत्य इति भवति सत्यासत्यमनोयोगविषय इति । तथा न विद्यते सत्यं यत्र स भवत्यसत्यो, न विद्यते मृषा यत्र स |भवत्यमृषोऽसत्यश्चासावमृषश्चेति पूर्ववत्कर्मधारयः, स चासौ मनोयोगश्चेत्यसत्यामृषमनोयोगः । इह विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाशया सर्वज्ञमतानुसारेण यद्विकल्प्यते प्रोच्यते वा यथा - " अस्ति जीवः सदसद्रूप" इत्यादि । तत्किल सत्यं परिभाषितम्, आराधकत्वात् । यत्तु विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाशया सर्वज्ञमतोत्तीर्णं किञ्चिद्विकल्प्यते प्रोच्यते वा यथा-"नास्ति गा.-२-३ ९
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy