SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् ग्रन्थविस्तरभयादन्यत्र सुचचितत्वाच्चेति । तत्र विशेषरूपग्राहकः साकारोपयोगः, सह विशिष्टाकारेण वर्त्तत इतिकृत्वा, सामान्यरूपविषयस्त्वनाकारोपयोगः सामान्याकारयुक्तत्वे सत्यपि विशिष्टव्यक्त्याकाररहितत्वादिति । एवं च सत्यत्रैव वक्ष्यमाणस्वरूपाणि पञ्चज्ञानानि मतिश्रुतावधिमन: पर्यायकेवलाख्यानि त्रीणि चाज्ञानानि मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानाख्यानि विशेषरूपग्राहित्वात्साकारोपयोगरूपाणीति साकारोपयोगोऽष्टधा । तथा चक्षुषा दर्शनं सामान्यार्थग्रहणरूपं चक्षुर्दर्शनम् । तथाऽचक्षुषा चक्षुर्वर्ण्यशेषेन्द्रियचतुष्टयेन मनसा च दर्शनं सामान्यार्थग्रहणमेवाचक्षुर्दर्शनम् । एवमवधिनाऽवधिर्वा केवलेन केवलमेव वा दर्शनं यथोक्तस्वरूपमवधिदर्शनं केवलदर्शनं च । एतानि चत्वार्यपि दर्शनानि सामान्यार्थग्राहित्वादनाकारोपयोगरूपाणीत्यनाकारोपयोगश्चतुर्द्धा भवति । तथा च सत्युपयोगः सामान्येन द्वादशधा सिद्धः । 'जोग' त्ति योजनं योगो जीवस्य वीर्यं शक्तिरुत्साहः पराक्रमश्चेष्टा परिस्पन्द इति यावत् । युज्यते धावनवल्गनादिक्रियासु व्यापार्यते य इति वा योगो, युज्यते सम्बध्यते धावनवल्गनादिक्रियया जीवोऽनेनेति वा योगो निर्दिष्टस्वरूप एव । स च मनोवाक्काययोगभेदात् त्रिधा; तद्यथा काययोगेन मन:प्रायोग्यवर्गणाभ्यो गृहीत्वा मनोयोगेन मनस्त्वेन परिणमितानि वस्तुचिन्ताप्रवर्त्तकानि द्रव्याणि मन इत्युच्यते, तेन | मनसा सहकारिकारणभूतेन योगो मनोयोगो, मनोविषयो योगो वा मनोयोगः १; तथा उच्यत इति वाग्, भाषापरिणामापन्नः पुद्गलद्रव्यसमूह इत्यर्थः तथा वाचा सहकारिकारणभूतया योगो वाग्योगः, वाग्विषयो वा योगो वाग्योगः २ तथा चीयत इति काय औदारिकादिस्तेन सहकारिकारणभूतेन योग: काययोगः, कायविषयो वा योगः काययोगः ३; एवं च त्रिविधोऽपि पुनः गा.-२-३ ८
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy