________________
बन्धशतक
गा.-२-३
ज्ञानप्रत्यनीकतादिभिर्विशेषहेतुभिर्यथाभवतीत्येतदभिधास्यते । 'जेसु ठाणेसु' त्ति गाथाचरमावयवो द्वितीयगाथया सम्बध्यते । येषु स्थानेषु गुणस्थानलक्षणेषु यावान्सम्भवति तं सम्भविनं बन्धविधिमुदयविधिमुदीरणाविधिं च 'प्रवक्ष्यामि' भणिष्यामीति | सम्बन्धः, अत्रापि विधिशब्दो भेदवचनः प्रत्येकसम्बन्धश्च । तथा त्रयाणामपि तेषां प्रत्येकोक्तानां बन्धोदयोदीरणाविधीनां च | संयोगम् एतावती: कर्मप्रकृतीबंध्नंस्तबन्धसमकालमेवेयतीर्वेदयत्युदीरयति चेत्यादिलक्षणं प्रवक्ष्यामीतीहापि क्रियासम्बन्धः ।। 'बंधविहाणे य' त्ति बन्धविधाने च बन्धभेदे च प्रकृतिस्थित्यनुभागप्रदेशलक्षणे, 'समासं' सक्षेपं किञ्चित् प्रवक्ष्यामीति योगः। 'तह' त्ति यथा कर्मप्रकृतिप्राभृतादिग्रन्थेषूक्तं तथेत्यर्थः । इति गाथाद्वयाक्षरार्थः । साम्प्रतं भावार्थः प्रत्यवयवमुच्यते 'उवओग' त्ति उपयोजनमुपयोगो बोधरूपो जीवव्यापार इत्यर्थः । कर्मणि वा घञ् उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यते य इत्युपयोगः । करणे वा उपयुज्यतेऽर्थपरिच्छेदं प्रति जीवोऽनेनेत्युपयोगः । सर्वत्र जीवस्वतत्त्वभूतो बोध एवोपयोगो मन्तव्यः । स च ज्ञेयभेदात् द्विधा, साकारोऽनाकारश्च । सामान्यविशेषात्मकं हि सकलं ज्ञेयं वस्तु, कथम् ? इति चेदुच्यते, दूरादेव हि शालतालतमालबकुलाशोकचम्पकादिविशिष्टव्यक्तिरूपतयाऽनवधारितं तरुनिकरमवलोकयतः सामान्येन वृक्षमात्रप्रतीतिजनकं यदपरिस्फुटं किमपि रूपं चकास्ति तत्सामान्यरूपम्, यत्पुनः तस्यैव निकटीभूतस्य शालतालादिव्यक्तिरूपतयाऽवधारितं तमेव तरुनिकरमुत्पश्यतो विशिष्टव्यक्तिप्रतीतिजनकं परिस्फुटं रूपमाभाति तद्विशेषरूपमिति प्रतिप्राणि प्रसिद्धप्रमाणाबाधितप्रतीतिद्वयवशात्प्रतिवस्तु सामान्यविशेषरूपद्वयात्मकत्वं भावनीयम् कथम् ? एकस्य सामान्यविशेषात्मकत्वमित्यादि तु न चर्च्यते,
AAA