________________
बन्धशतक
प्रकरणम्
सारजुया वोच्छं गाहाओ जं सुत्तयं तहिं तासिं । अत्थाहिगारकहणं दुवारगाहादुगं आह ॥८॥ इहानन्तरगाथायां सारयुक्ता गाथा वक्ष्य इति प्रतिज्ञातम् कीदृशाधिकारयुक्ताः पुनरेता इति प्रश्नमाशङ्क्य तासामर्थाधिकारसङ्ग्रहार्थं द्वारगाथाद्वयमाह
वओगा जोगविही, जेसु अ ठाणेसु जत्तिया अस्थि । जप्पच्चइओ बंधो, होइ जहा जेसु ठाणेसु ॥२॥
बंधं उदयमुदीरणविहिं च तिण्हं पि तेसि संजोगं । बंधविहाणे य ता किंचि समासं पवक्खामि ॥३॥
अत्र विधिशब्दो भेदवचनः, प्रत्येकं च योज्यते । 'उवओगा' इत्याकारश्चालाक्षणिकस्ततश्चोपयोगभेदा योगभेदाश्च येषु स्थानेषु जीवस्थानगुणस्थानलक्षणेषु प्रत्येकं यावन्तः सन्ति तेऽत्र प्रकरणेऽभिधास्यन्त इति । प्रथमगाथायां क्रियाध्याहारो द्रष्टव्यः । चकारस्य भिन्नक्रमत्वाद्यत्प्रत्ययश्च बन्धो मिथ्यात्वाविरतिकषाययोगानां कर्माष्टकस्यापि सामान्यबन्धहेतूनां मध्ये कैर्बन्धहेतुभिः कस्मिन् गुणस्थाने बन्धः सम्भवतीत्यप्यत्राभिधास्यते । 'होड़ जह' त्ति स एव बन्धः प्रत्येकं ज्ञानावरणादिकर्मणां
गा.-२-३
६