________________
बन्धशतक
मुनिप्रणीतदृष्टिवादान्तर्गतत्वाऽऽख्यानेन यथोक्तप्रयोजनसाधकत्वसूचनादिति । सम्बन्धस्तु सिद्धान्तानुसारिणां शास्त्रोत्थानप्रकरणम् कथनादिकोऽनेकधाभिप्रेतः । तत्रेह दृष्टिवादाद् गाथा वक्ष्ये इतिवचनाच्छास्त्रोत्थानलक्षणः सम्बन्धः कथितो द्रष्टव्यः । तर्कानुसारिणां तूपायोपेयलक्षणः सम्बन्धः, तत्र वचनरूपापन्नं प्रकरणमिदमुपायः, प्रकरणार्थस्तूपेय इत्यर्थाद् गम्यते, अनेन च मङ्गलाद्यभिधानेन सकलशास्त्रकृतां प्रवृत्तिरनुसृता भवति, तथा च तैरुक्तम्
प्रेक्षावतां प्रवृत्यर्थमभिधेयप्रयोजने । मङ्गलं चैव शास्त्रादौ वाच्यमिष्टार्थसिद्धये ॥ १॥ इति गाथार्थः ॥
अत्र च
अरहंते भगवंते, अणुत्तरपरक्कमे पणमिऊणं । बंधसयगे निबद्धं, संगहमिणमो पवक्खामि ॥ १ ॥
इतीयं गाथा आदौ दृश्यते, सा च पूर्वचूर्णिकारैरव्याख्यातत्वात् प्रक्षेपगाथेति लक्ष्यते, सुगमा च । नवरं कर्म| प्रकृतिप्राभृतादुद्धृत्य सङ्ग्रहमेनमन्तस्तत्त्वगृहीतं प्रवक्ष्यामि । कथंभूतम् ? इत्याह- 'निबद्धम्' आरोपितम्, क्व ? इत्याह | 'बंधशतके' प्रस्तुतप्रकरणे इदं हि शतगाथानिष्पन्नत्वाच्छतकोऽभिधीयते, बन्ध एव चात्र विस्तरेणाभिधास्यते अतो बन्धप्रधानः शतको बन्धशतकस्तस्मिन्नित्यर्थः ॥ १ ॥
भा० एत्थ य अरहंते इह आइमगाहा उ अन्नकइरइया । सुणह इह दुइयगाहा इह पत्थुयकविकया नेया ||६|| एत्थाभिधेयमङ्गलसबंधपयोयणाइ समईए । ऊहेयव्वाइ दुहेहि चुन्निओ वित्तिओ वाव ॥७॥
Ass.
गा.-१
५