________________
बन्धशतक प्रकरणम्
प्रत्येकमभिसम्बन्धस्ततश्च जीव इति गुण इति च सञ्ज्ञा सञ्ज्ञाता एषामिति नारकादि दर्शनादि, तत्प्रत्यये जीवसञ्ज्ञितानि गुणसञ्ज्ञितानि चेति । तेषु स्थानेष्वित्यपि प्रत्येकमभिसम्बध्यते । ततश्चेदमुक्तं भवति, जीवसञ्ज्ञितेषु स्थानेषु सूक्ष्मैकेन्द्रियादिलक्षणेषु गुणसञ्ज्ञितेषु च स्थानेषु मिथ्यादृष्ट्यादिस्वरूपेषु विषयेषु एता गाथा भणिष्यामीति । कुतः पुनरेता अभिधास्यन्त इत्याह-'दिट्ठिवायाओ त्ति दृष्टिवादो द्वादशमङ्गं तस्मात् दृष्टिवादे हि द्वितीयमग्रायणीयाख्यं पूर्वमस्ति । तत्रापि प्रणिधिकल्पाख्यं पञ्चमं वस्तु । तस्मिन्नपि कर्मप्रकृतिप्राभृतं नाम चतुर्थं प्राभृतं श्रुतविशेषरूपम् । तत्रापि यत्कर्मप्रकृतिबन्धलक्षणं द्वारं तस्मादुद्धृत्यैता गाथा वक्ष्ये इति भावार्थ: । एतेन चात्मनः स्वमनिषिका परिहृता भवति, शास्त्रस्य च गौरवमापादितं भवति । भवति ह्याधारविशेषादाधेयस्य गुणप्रकर्षविशेषो, जलादेरिव क्षित्याद्याधारविशेषादिति । जीवस्थानगुणस्थानविषये दृष्टिवादाद्या गाथा अहं वक्ष्ये ता यूयं शृणुतेति पिण्डार्थः । अत्र च शृणुतेति शब्दो मङ्गलवाचित्वादादौ विनिर्दिष्टः एतदभिधेयस्य श्रवणस्य श्रुतरूपत्वाच्छ्रुतस्य च ज्ञानपञ्चकान्तः पातित्वात्तस्य च भावनन्दित्वेन मङ्गलत्वाभिधानादिति । मङ्गलपरिगृहीतानि च शास्त्राणि निर्विघ्नेन परिसमाप्यन्ते, शिष्यप्रशिष्यपरम्परया च प्रतिष्ठामुपगच्छन्तीति । 'वोच्छं कइवइयाओ गाहाओ' इत्यादिना त्वभिधेयनिर्देशः कृतः, उक्तस्वरूपगाथानामेव प्रकरणेऽभिधास्यमानत्वादिति । प्रयोजनं तु प्रकरणकर्तृश्रोत्रोरनन्तरपरम्परभेदाच्चिन्तनीयम् । तत्र प्रकरणकर्त्तुरनन्तरं सत्त्वानुग्रहः प्रयोजनम् श्रोतुश्च प्रस्तुतप्रकरणार्थपरिज्ञानम् । | परम्परप्रयोजनं तु द्वयोरपि परमपदप्राप्तिरिति । इदं तु प्रयोजनं साक्षादनुक्तमपि सामर्थ्याद् गम्यते, प्रक्रान्तप्रकरणस्य परम
गा.-१
४