________________
बन्धशतक प्रकरणम्
अत्र चेयमादिगाथा -
अरहंते भगवंते अणुत्तरपरक्कमे पणमिऊणं । बंधसयगे निबद्धं संगहमिणमो पवक्खामि ॥ सुह इह जीवगुणसन्निएस ठाणेसु सारजुत्ताओ । वोच्छं कइवइयाओ गाहाओ दिट्ठिवायाओ ॥१॥
'सुणह' ति श्रुणुत यूयमिति गम्यते, शिष्यामन्त्रणं चैतद् 'इह' त्ति अस्मिन्नन्तस्तत्त्ववर्त्तिनि शतकप्रकरणे, यदहं 'वक्ष्ये' भणिष्यामि तच्छृणुत यूयमिति सोपस्कारमुत्तरेण सम्बन्धः । किं तद्भणिष्यत इत्याह — ' गाहाओ' त्ति गीयन्ते प्रतिपाद्यन्ते अर्था आभिरिति गाथाः कियत्यः पुनस्ता इत्याह- 'कइवइयाओ त्ति प्रायः सङ्क्षिप्तरुचित्वात्साम्प्रतश्रोतॄणां तत्प्रवर्त्तकमिदं वचः कियतीरपि वक्ष्ये न बह्वीरिति भावः । पुनस्ता एव विशिष्यन्ते 'सारजुत्ताओ' त्ति, सारः सकलकर्मविचारनिःष्यन्दभूतोऽतिव्यापकतया प्रधानो योऽर्थ इति गम्यते, तेन युक्ता इति । केषु विषयेषु पुनस्ता भणिष्यन्त इत्याह- 'ठाणेसु' त्ति तिष्ठन्ति | जीवा गुणा वा एष्विति स्थानानि स्वरूपभेदलक्षणानि तेषु कथंभूतेष्वित्याह- 'जीवगुणसन्निएस 'त्ति अत्र सञ्ज्ञितशब्दस्य
गा.-१
३