________________
बन्धशतक प्रकरणम्
तत्स्वरूपमेव यत्नतो ज्ञापनीयम् । ज्ञापिते हि सकलदुःखमुले कर्मण्यवगततत्स्वरूपाः प्राणिनः तदपगमार्थं यत्नमाधाय परमनिवृत्तिमधिगच्छन्तीति निश्चित्य, बहुविस्ताराऽतिगम्भीरकर्मप्रकृतिप्राभृतादिग्रन्थोक्तकर्मस्वरूपावगाहनाऽसमर्थानां तथाविधायुर्बलमेधादिसामग्री विकलानां साम्प्रतसाधूनामनुग्रहकाम्यया समधिगतश्रुतजलधितत्त्वैरनेकवादसमरविजयिभिः श्रीशिवशर्मसूरिभिः सङ्क्षिप्ततरं सुखावबोधं च गाथाशतपरिमाणनिष्पन्नं यथार्थनामकं शतकाख्यं प्रकरणमभ्यधायीति । इदं च & पूर्वचूर्णिकारैरपि व्याख्यातम्, तथापि तच्चूर्णीनामतिगम्भीरत्वादस्मादृशां दुरधिगमत्वाच्च, गुरूभ्यः समधिगतार्थस्यात्मसंस्मृतयेऽल्पधियामनुग्रहार्थं च मन्दमतिनापि मया व्याख्यायते ।
श्रीचक्रेश्वरसूरि प्रणितं भाष्यम्
चउबंधणुओगविहीदुवारचउविणयवयणमइकुसला । उदयचउतीसुत्तमपयडीजुत्ता जयंतु जिणे ॥१॥ सयगम्मि कम्मगंथे, सुत्तपयाइं अफासइत्ताणं । कत्थवि विसमपयाई, फासित्ता किंचिमेत्ताई ॥२॥ विरएमि सयगभासं, तयत्थिएहिं च तस्स भावत्थो । भावेयव्वो सम्मं, सुत्तं परिभावयंतेहिं ॥३॥ एत्थ य गाहापत्थावणाउ पइअक्खरं च परिकहणं । पाएण नत्थि पयडं भावत्थं पुण निसामेह ||४|| तत्थ य विग्घविणायगुवसंतए सिट्ठविहियसमयस्स । परिवालणाय पत्थुयगंथकइ अगाहदुगमाह ॥५॥
२