SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ गा.-९४ बन्धशतकप्रकरणम् प्रमत्ताप्रमत्तलक्षणाः पञ्चैव जनाः ''सेन्नी उक्कडयोगी'त्यादिगाथाभणिष्यमाणसम्भवद्विशेषणविशिष्टा आयुष उत्कृष्टप्रदेशबन्धमुप| कल्पयन्ति । मिश्रोऽपूर्वकरणादयश्चायुर्न बध्नन्ति इति नेह गृहीताः । सास्वादनस्तायुर्बन्धात्येव स किमिति न गृहीत इति चेत् ? उच्यते, तत्रोत्कृष्टप्रदेशनिबन्धनोत्कृष्टयोगाभावात् । तथाहि पूर्वमनन्तानुबन्धिनामुत्कृष्टोऽनुत्कृष्टश्च प्रदेशबन्धो मिथ्यादृष्टौ साद्यध्रुव एवोक्तो, यदि तु सास्वादनेऽप्युत्कृष्टयोगो लभ्येत तदा असावप्यनन्तानुबन्धिनो बध्नात्येवातो यथाऽऽविरतादिष्वप्रत्याख्यानावरणादिप्रकृतीनामुत्कृष्टप्रदेशबन्धसद्भावतोऽनुत्कृष्टप्रदेशबन्धः साद्यादिचतुर्विकल्पोऽभिहितस्तथैवानन्तानुबन्धिनां मिथ्यात्वभागलाभात् सास्वादने उत्कृष्टप्रदेशबन्धसद्भावतोऽनुत्कृष्टः साद्यादिचतुर्विकल्पोऽपि स्याद्, न चैवं निर्दिष्टः तस्माज्ज्ञायते अल्पकालभावित्वेन तथाविधप्रयत्नाभावादन्यतो वा कुतश्चिद्धेतोः सास्वादनस्योत्कृष्टयोगो नास्ति । किञ्चानन्तरमेवोत्तरप्रकृतिस्वामित्वे मतिज्ञानावरणादिप्रकृतीनां प्रत्येकं सूक्ष्मसम्परायादिषूत्कृष्टं प्रदेशबन्धमभिधाय भणितशेषप्रकृतीनां मिथ्यादृष्टिमेवोत्कृष्टप्रदेशस्वामिनं निर्देक्ष्यति, न सास्वादनं, यद्वक्ष्यति- सेसपएसुक्कडम्मिच्छो 'त्ति । अतोऽपि ज्ञायते नास्त्यस्योत्कृष्टयोगसम्भवः । अतो ये सास्वादनमप्यायुष उत्कृष्टप्रदेशबन्धस्वामिनमिच्छन्ति, तन्मतमुपेक्षणीयमिति स्थितम् । 'मोहस्स सत्त ठाणाणि'त्ति १. गाथा ९७ । २. गाथा ९६ चतुर्थपादः । ३. 'अतोऽप्यागमात्तस्योत्कृष्टयोगासंभवः'सि. २९१
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy