________________
गा.-९४
बन्धशतकप्रकरणम्
मोहनीयस्योत्कृष्टप्रदेशबन्धस्वामित्वे सप्तगुणस्थानान्यधिक्रियन्ते । इदमत्र हृदयम्-मोहनीयं तावदनिवृत्तिबादरान्ता नव बध्नन्ति । तत्र सास्वादनमिश्रौ वर्जयित्वा शेषाः सप्तजना उत्कृष्टयोगे वर्तमानाः सप्तविधबन्धका मोहस्योत्कृष्टं प्रदेशबन्धं कुर्वन्ति । अन्ये तु सास्वादनमिश्रावपि सङ्ग्रह्य 'मोहस्स नव उ ठाणाणि'त्ति पठन्ति, तच्च न युक्तियुक्तम्, यतः सास्वादनस्योत्कृष्टयोगो न लभ्यत इत्युक्तमेव, मिश्रेऽप्युत्कृष्टयोगो न लभ्यते, तथाहि-द्वितीयकषायाणामुत्कृष्टप्रदेशबन्धस्वामिनमविरतमेव निर्देक्ष्यति, यद्वक्ष्यति 'अंजई वीयकसाए'त्ति । यदि तु मिश्रेऽप्युत्कृष्टयोगो लभ्यते, तदा सोऽपि तत्स्वामितया निर्दिश्येत, न च वक्तव्यम्, मिश्रादल्पतरप्रकृतिबन्धकोऽविरत इत्ययमेव गृहीतः, यतोऽविरतोऽपि मूलप्रकृतीनां सप्तविधबन्धकस्तत्र गृहीष्यते मिश्रोऽपि सप्तविधबन्धक एव, उत्तरप्रकृतीरपि मोहस्य सप्तदशाविरतो बध्नाति, मिश्रोऽप्येतावतीरेव । तस्मादुत्कृष्टयोगाभावं विहाय नापरं तत्परित्यागे कारणं पश्याम इति । मिश्रोऽप्युत्कृष्टयोगाभावात्सप्तैव मोहोत्कृष्टप्रदेशबन्धका इति स्थितम् । भणितशेषाणि ज्ञानावरणदर्शनावरणवेदनीयनामगोत्रान्तरायलक्षणानि षट्कर्माणि तनुकषायः-सूक्ष्मसम्परायः, उत्कृष्टयोगे वर्तमान उत्कृष्टप्रदेशान् बध्नाति । सूक्ष्मसम्परायो हि मोहायुषी न बध्नाति अतस्तद्भागोऽधिको लभ्यत इति अस्यैव ग्रहणमिति गाथार्थः ॥१४॥ भा० तत्थाउक्कस्स त्ति गाहाए मूलपयडीए सामियबंधे । उक्कोसगम्मि भन्नंति आउकम्मस्स पंच जणा ॥८७३॥
१. गाथा ९५ तृतीयपादः ।
२९२