________________
गा.-८७
बन्धशतकप्रकरणम्
पुग्गलविवागिपयडी तो छत्तीसं हवंतिइ संखा । जा अन्नत्थ पढिज्जइ सा किर परमत्थवित्तीए ॥७५९॥ शेषप्रकृतयस्तहि किंविपाका इत्याह
आऊणि भवविवागा खित्तविवागा य आणुपुव्वीओ।
अवसेसा पयडीओ जीवविवागा मुणेयव्वा ॥४७॥ भवन्ति जन्तवोऽस्मिन्निति भवो नारकादिपरिणतिविशेषः, स च विग्रहगतेरारभ्य द्रष्टव्यो 'नेइए नेइएसु उववज्जइत्ति वचनात् तस्मिन् भव एव विपाक उदयो येषां तानि भवविपाकानि नारकादीनि चत्वार्यप्यायूंषि भवन्ति, यथासम्भवं प्राग्भवे | बद्धान्यागामिनि भवे विपच्यन्त इति भावः । क्षेत्रमाकाशं तत्रैव विपाक उदयो ताः क्षेत्रविपाकाश्चतस्रोऽप्यानुपूर्को विग्रहगतावेव । तासामुदयो भवति, नान्यत्रेति भावः । अवशेषाः-भणितशेषा ज्ञानावरणादिप्रकृतयो जीव एव विपाक: स्वशक्त्याविर्भावलक्षणो यासां ता जीवविपाका ज्ञातव्याः, तथाहि-ज्ञानावरणोदयाज्जीव एवाज्ञानी स्यात् न पुनः शरीरपुद्गलेषु तत्कृतः कश्चिदुपघातोऽनुग्रहो वा भवति । एवं दर्शनावरणोदयादपि जीव एवादर्शनी भवति । सातासातोदयादपि स एव सुखी वा दुःखी वा भवति । मोहोदयादप्यदर्शन्यचारित्री वा स एव भवति । एवं गतिजात्युच्छ्वासविहायोगतिसप्रतिपक्षत्रसबादरपर्याप्तकसुभगसुस्वरा
१. नैरयिको नैरयिकेषूत्पद्यते ।
२६१