SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ बन्धशतक त्रीण्यङ्गोपाङ्गानि षट् संहननानि पञ्च वर्णाः, द्वौ गन्धौ पञ्च रसाः, अष्टौ स्पर्शा इत्येताः प्रकृतयः पुद्गलेष्वेव विपच्यन्ते इति प्रकरणम् पुद्गलविपाका बोद्धव्याः । शरीरपुद्गलेष्वेवात्मीयां शक्तिं दर्शयन्तीत्यर्थः । तथाहि शरीरनामोदयाच्छरीरतया पुद्गला एव परिणमयन्ति । संस्थाननामोदयादपि तेष्वेवाकारविशेषो भवति, अङ्गोपाङ्गोदयादपि तेष्वेव शिरः पादादिविभागो भवतीत्यादि स्वधिया वाच्यम्, यावत्स्पर्शनामोदयादपि तेष्वेव शरीरपुद्गलेषु कर्कशादिः कश्चित्स्पर्शो भवत्यत एताः पुद्गलविपाकाः । किमेता एव ? नेत्याह- अगुरुलघुपराघातोपघातोद्योतातपनिर्माणानि प्रत्येकादिष्वितरशब्दस्य प्रत्येकमभिसम्बन्धात्प्रत्येकसाधारणस्थिरास्थिरशुभाशुभनामानि च पुद्गलविपाकानि भवन्ति, सर्वेषामप्यमीषां शरीरपुद्गलेष्वेव स्वविपाकदर्शनादिति गाथाद्वयार्थः ॥८५-८६ ॥ भा० तहिं पंचयगाहाए सरीरसंठाणाअंगुवंगाणं । संघयणवन्नगंधो रसफासा अट्ठपयडीणं ॥७५४॥ उवरिं कमसो नेया संखा पंचय इमो गाहाए । तह एत्थं सरिराई फासंता जइवि किर भणियं ॥ ७५५ ॥ तह विहु बंधणसंघायणाउ एत्थं न हुंति गणियव्वा । बंधे जेणं ते किर सरीरगहणेण वी गहिया ॥७५६ ॥ तह पंचयगाहाए चालीसं अगुरुलहुयगाहाए । बारस दोहिं वि मिलिएहिं होइ सव्वावि बावन्ना ॥७५७॥ जाई एए मझे वन्नाई वीसई किर समत्थि । तहि वन्नाइ चउरो गब्भा सोलस न घेत्तव्वा ॥ ७५८ ॥ गा.-८५ ८६ २६०
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy