SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् केवलयोगवत्सु मिथ्यात्वाविरतिकषायाभावेऽपि बध्यत इति योगप्रत्ययमित्येवमेका सातलक्षणा प्रकृतिश्चतुः प्रत्यया । 'मिच्छत्त सोलस त्ति इह पूर्वं प्रकृतिबन्धविचारे 'सोलसमिच्छत्तंता' इत्यादिगाथावृत्तौ यासां मिथ्यात्वादिषोडशप्रकृतीनां मिथ्यादृष्टावन्त उक्तस्ता मिथ्यात्वप्रत्यया भवन्तीत्यर्थः । तद्भावे बध्यते, तदभावे तूत्तरत्र सास्वादनादिषु न बध्यते इत्यन्वयव्यतिरेकाभ्यां | मिथ्यात्वमेवासां प्रधानं कारणम्, शेषप्रत्ययत्रयं तु गौणमिति भावः । 'दुपच्चया य पणतीसं' ति पूर्वमेव सास्वादनेऽविरते च यासां पञ्चत्रिंशतः प्रकृतीनां बन्धव्यवच्छेद उक्तस्ता द्विप्रत्ययाः मिथ्यादृष्टौ बध्यन्त इति मिथ्यात्वप्रत्यया एताः सास्वादनादिष्वपि बध्यन्त इत्यविरतिप्रत्ययाः, शेषप्रत्ययद्वयं तु गौणम्, तद्भावेऽप्युत्तरत्र तद्बन्धाभावादिति भावः । ' सेसा तिपच्चये 'त्यादि | तीर्थकरनामाहारकं च वर्जयित्वा भणितशेषाः सर्वा अपि प्रकृतयस्त्रिप्रत्यया भवन्ति । मिथ्यादृष्टिष्वविरतेषु सकषायेषु च सर्वेषु सूक्ष्मसम्परायावसानेषु यथासम्भवं बध्यन्त इति मिथ्यात्वाविरतिकषायलक्षणा प्रत्ययत्रयनिबन्धना भवन्तीत्यर्थः । उपशान्त| मोहादिषु केवलयोगवत्सु योगसद्भावेऽप्येतासां बन्धो नास्तीति योगप्रत्ययो न विवक्ष्यते, अन्वयव्यतिरेकसमधिगम्यत्वात्, कार्यकारणभावस्येति हृदयम् । तीर्थकराहारकनाम्नोस्तु प्रत्ययः “सम्मत्तगुणनिमित्तं तित्थयरं "इत्यादिना पूर्वमेवोक्त इतीह तद्वर्जनम्, अपरं चेह पूर्वं ' रचउपच्चइओ बन्धो' इत्यादिना मिथ्यादृष्ट्यादिगुणस्थानेषु बन्धप्रत्यया उक्ताः । साम्प्रतं तु प्रकृती १. गाथा ४५ । २. गाथा ४४ । ३. गाथा १४ । गा.-८४ २५६
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy