SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् पण अंतराय संजलणचउग पुरिसं च ईइ सत्तरसा । चउविहभावपरिणया इयपयस्सेस भावत्थो । ७२९ ॥ इह हुंतेगरसाई चउरसा सत्तरसेव पयडीओ । सेसा सुहासुहाओ तिपरिणया इगर मोतुं ॥७३०॥ अह हेऊकारणनामलक्खिया पच्चयपरूवणया । तदेवं कृता स्थानप्ररूपणा । साम्प्रतं प्रत्ययनिरूपणार्थमाह चउपच्चएगमिच्छत्त सोलस दुपच्चया य पणतीसं । सेसा तिपच्चया खलु तित्थयराहारवज्जाओ ॥८४॥ एका सातालक्षणा प्रकृतिश्चतुः प्रत्यया मिथ्यात्वाविरतिकषाययोगलक्षणैश्चतुर्भिरपि प्रत्ययैर्बध्यत इत्यर्थः । तथाहि -सातं मिथ्यादृष्टौ बध्यत इति मिथ्यात्वप्रत्ययम्, शेषा अपि अविरत्यादयस्तु ये प्रत्ययास्तत्र सन्ति, केवलं मिथ्यात्वस्यैवेह प्राधान्येनेष्टत्वात्ते तदन्तर्गतत्वेनैव विवक्षिताः, एवमुत्तरत्रापि । तदेव सातं मिथ्यात्वाभावेऽप्यविरतिमत्सु सासादनादिषु बध्यत | इत्यविरतिप्रत्ययम्, शेषं तु कषाययोगप्रत्ययद्वयं पूर्ववत्तदन्तर्गतत्वेन विवक्ष्यते, तदेवं मिथ्यात्वाविरत्यभावेऽपि कषाययोगवत्सु प्रमत्तादिषु सूक्ष्मसम्परायावसानेषु बध्यत इति कषायप्रत्ययम्, योगप्रत्ययस्तु पूर्ववदन्तर्गतो विवक्ष्यते । तदेवोपशान्तादिषु गा.-८४ २५५
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy