________________
बन्धशतक
गा.-८३
AA
पूर्वोक्ताः सप्तदश प्रकृतीवर्जयित्वा शेषा अशुभप्रकृतयो न बध्यन्त एव । ये अपि केवलज्ञानदर्शनावरणलक्षणे द्विप्रकृती तत्र बध्येते । तयोरपि सर्वघातित्वाद् द्विस्थानिक एव रसो लभ्यते इत्युक्तमेव । शुभप्रकृतीनां तडॅकस्थानिकरस: कस्मान्न लभ्यत इति चेत् ? उच्यते, इहासङ्ख्येयलोकाकाशप्रदेशप्रमाणानि सङ्क्लेशस्थानानि भवन्ति, विशुद्धिस्थानान्यप्येतावन्त्येव, यतो यान्येव सङ्क्लिश्यमानः सङ्क्लेशस्थानान्यारोहति, तेष्वेव विशुद्धमानोऽवतरति, ततश्च यथा प्रासादमारोहतां यावन्ति सोपानस्थानान्यवतरतामपि तावन्त्येव तथात्रापीति भावः । केवलं विशुद्धिस्थानानि विशेषाधिकानि । कथमिति चेत् ? उच्यतेक्षपको येष्वध्यवसायस्थानेषु क्षपकश्रेणिमारोहति, तेषु पुनरपि न निवर्त्तते, तस्य सङ्क्लेशाभावाद्, अतस्तानि विशुद्धिस्थानान्येव भवन्ति, न सङ्क्लेशस्थानानीति तैरध्यवसायस्थानैर्विशुद्धिस्थानान्यधिकानि । एवं च स्थितेऽत्यन्तविशुद्धौ वर्त्तमानः शुभप्रकृतीनां चतु:स्थानिकं रसमभिनिवर्त्तयति । अत्यन्तसङ्क्लेशे तु वर्तमानस्य शुभप्रकृतयो बन्ध एव नागच्छन्ति । या अपि नरकप्रायोग्या वैक्रियतैजसकार्मणाद्याः सङ्क्लिष्टोऽपि शुभप्रकृतीर्बध्नन्ति, तासामपि स्वभावात् सर्वसङ्क्लिष्टोऽपि द्विस्थानिकमेव रसं करोति । येषु तु मध्यमेष्वध्यवसायस्थानेषु शुभप्रकृतयो बध्यन्ते, तेषु तासां द्विस्थानिकपर्यन्त एव रसो बध्यते, नैकस्थानिक: मध्यमपरिणामत्वादेवेति न क्वापि शुभप्रकृतीनामेकस्थानिकरससम्भव इति गाथार्थः ॥८३॥ भा० संपइ आवरणाई गाहाएणुभागट्ठाणया भणइ । तहिं नाणावरणेसुं देसघाईसरूवेसु ॥७२७॥
केवलवज्जा चउरो नाणे नाणम्मि दंसणा तिन्नि । चक्खुअचक्खुओही एयाणी देसघाईणि ॥७२८।।
२५४