SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ गा.-८३ बन्धशतकप्रकरणम् आवरणदेसघायंतरायसंजलणपुरिससत्तरस । चउविहभावपरिणया तिविहपरिणया भवे सेसा ॥८३॥ आवरणेषु देशघातीनि केवलावरणवानि चत्वारि ज्ञानावरणानि, चक्षुरचक्षुरवधिदर्शनावरणलक्षणानि त्रीणि दर्शनावरणानि, पञ्चान्तरायाणि सञ्चलनचतुष्टयं पुरुषवेदश्चेत्येताः सप्तदश प्रकृतयश्चतुविधभावेन चतुविधेनापि पर्यायेण परिणता भवन्ति । एकस्थानिकेन द्विस्थानिकेन त्रिस्थानिकेन चतु:स्थानिकेन च रसेन युक्ता बध्यन्त इत्यर्थः । एकस्थानिकादिस्वरूपं चानुभागस्यादावेव दर्शितम् । तत्रानिवृत्तिबादरगुणस्थानकस्य सङ्ख्येयेषु भागेष्वतिक्रान्तेष्वितः प्रभृत्येतासामशुभत्वादेकस्थानिक | एवानुभागो बध्यते । अत्रान्तरे केवलज्ञानकेवलदर्शनावरणे अपि बध्येते, किन्त्वेते सर्वघातिस्वरूपे सर्वघातिनां च जघन्यपदेऽपि | द्विस्थानिक एव रसो बध्यते, अतस्तयोरत्राग्रहणम् । शेषस्तु द्विस्थानिकादिरूपोऽनुभागः प्रस्तुतप्रकृतीनां मिथ्यादृष्ट्यादिषु लभ्यते ।। तत्र पर्वतराजिसमानकोपश्चतुःस्थानिकं बध्नाति, पृथ्वीराजिसमानकोपस्तु त्रिस्थानिकम्, रेणुजलराजिसमानकोपस्तु द्विस्थानिकमिति । 'तिविहपरिणया भवे सेस'त्ति यथोक्ताः सप्तदश प्रकृतीवर्जयित्वा शेषाः शुभा अशुभा वा प्रकृतयस्त्रिविधपारिणता | भवन्ति । द्विस्थानिकत्रिस्थानिकचतुःस्थानिकलक्षणेन त्रिविधानुभागेन युक्ता बध्यन्त इत्यर्थः । एकस्थानिकरसस्त्वासां न सम्भवत्येव । तथा हि अशुभप्रकृतीनां तावदेकस्थानिकरसो यदि लभ्यते, तदाऽनिवृत्तिबादरसङ्ख्येयभागेभ्यः परत एव, तत्र च २५३ AALA
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy