________________
गा.-८२
बन्धशतकप्रकरणम्
केवलं 'घाइयाहिं पलिभाग'त्ति स्वयमघातिन्योऽप्येता घातिनीभिस्सह वेद्यमानास्तत्तुल्या दृश्यन्त इत्यर्थः । यथा स्वयमतस्करस्वभावोऽपि तस्करैः सह वर्तमानस्तस्कर इव दृश्यते । एवमेता अपि घातिनीभिस्सह वेद्यमानास्तदोषा इव भवन्तीति भावः । 'ता एव पुण्णपाव'त्ति ता एव घातिस्वरूपाः प्रकृतयः काश्चित्साताद्या द्विचत्वारिंशत्पुण्यप्रकृतयः काश्चिदसाताद्याः पापप्रकृतयो भवन्ति । शेषास्तु पूर्वोक्ताः सर्वदेशघातिन्यः पापप्रकृतय एव मुणितव्याः । अयं च पुण्यपापविभागः प्रकृतीनां पूर्वमभिहितोऽप्यत्र प्रसङ्गतः किञ्चिदुक्त इति गाथार्थः ॥८२॥ भा० अवसेसा वेयणियाउनाम तह गोत्तसन्निया पयडी । नाणाईणं मज्झा किंपि गुणं नेव घायंति ॥७२१॥
तत्तो अघाइयाओ भन्नंती नवरि घाइयाइहि पि । पलिभागाओ हुंती एत्थ य पलिभागसहस्स ॥७२२॥ अयमत्थो किर ताओ अघाइणीओ वि घायणीहिं सह । वेइज्जमाणियाओ तेसिं तुल्ला उ दीसंति ॥७२३॥ ता एव पुन्नपावा इह ता अग्घायणीसरूवाओ । पयडीओ काइवि साइयाउ बालीससंखाओ ॥७२४॥ पुन्नपगईओ तह एत्थ कावि अस्साइयाउ पयडीओ । पावा भवंति सेसाओ सव्वदेसाण घाईओ ॥७२५॥ पावपयडी उ नेया एस विभागो उ पुन्नपावाणं । पुव्वभणिओ वि अत्थो पसंगओ किंचि वुत्तो त्ति ॥७२६॥ कृता घात्यघातिप्ररूपणा, साम्प्रतं प्रकृतिष्वनुभागस्थानानि चिन्तयन्नाह
२५२