________________
गा.-८०
बन्धशतक-A प्रकरणम्
प्रवृत्तावपि किञ्चिद् गृहशरीरादिकं तत्रोद्धरितं दृश्यते, एवमत्रापि प्रबलकेवलज्ञानावरणावृतस्यापि केवलज्ञानस्यैकोऽनन्त| भागोऽवतिष्ठते, यदि पुनस्तमप्यावृणुयात् तदा जीवोऽजीवत्वमेव प्राप्नुयात् । सोऽपि चोद्धरितस्तदनन्तभागो मेघावृत्तशेषसूर्यादिप्रभेव कटकुड्यादिभिर्नृपापहृतोद्धरितगृहसारमिव वा दायादादिभिर्मतिश्रुतावधिर्मन: पर्यायज्ञानावरणैरावियते, तथापि च काचिन्निगोदावस्थायामपि ज्ञानमात्राऽवतिष्ठत एवान्यथाऽजीवत्वप्रसङ्गात्, मतिज्ञानादिविषयभूतांश्चार्थान् यन्न जानाति स केवलज्ञानावरणोदयो न भवति, किं तर्हि मतिज्ञानावरणाद्युदय एवेति । केवलदर्शनावरणस्य समस्तवस्तुसामान्यावबोध आवार्यः, तं सर्वं हन्तीति सर्वघात्युच्यते । तदनन्तभागं त्विदमपि सामर्थ्याभावान्नावृणोति । सोऽपि चानावृतोऽनन्तभागश्चक्षुरचक्षुरवधिदर्शनावरणैराव्रियते, शेषो मेघदृष्टान्तादिचर्चस्तथैव । चक्षुर्दर्शनादिविषयभूतांश्चार्थान् यन्न पश्यति, स केवलदर्शनावरणोदयो न भवति, किं तर्हि चक्षुर्दर्शनावरणाद्युदय एव । यद्येवं तर्हि केवलज्ञानकेवलदर्शनावरणक्षयेऽपि मतिज्ञानादिचक्षुर्दर्शनादिविषयाणामर्थानामेव बोधो न प्राप्नोति, तदन्यज्ञानविषयत्वादिति चेत् ? अयुक्तम्, केवलालोकलाभे शेषबोधलाभान्तर्भावात्, ग्रामलाभे क्षेत्रलाभान्त ववदिति । निद्रापञ्चकमपि सर्वं वस्त्ववबोधमावृणोतीति सर्वघाति । यत्तु निद्रावस्थायामपि किञ्चिच्चिकेति (चेतति) तत्र मेघदृष्टान्तादिचर्चस्तथैव । कषायास्तु यथोक्ता द्वादशापि सर्वविरतिरूपं चारित्रं सर्व जन्तीति सर्वघातिनो, यत्तु तेषां प्रबलोदयेऽप्ययोग्याहारादिविरमणं दृश्यते, तत्र मेघादिदृष्टान्तः । मिथ्यात्वं तु सर्वज्ञप्रणीततत्त्वश्रद्धानं सर्वमुपहन्तीति सर्वघाति। यत्तु तस्य प्रबलोदयेऽपि मनुष्यद्रव्यादिश्रद्धानं किञ्चिद्देशतो भवति, तत्रापि मेघादिदृष्टान्त इति गाथार्थः ॥४०॥
२४६