SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ गा.-८० बन्धशतकप्रकरणम् उक्टेियरभिन्नं भणियं अणुभागबंधसामित्तं । अह सव्वेयरघाई अघाइपयडी उ कित्तेमि ॥६८६॥ उक्तमुत्कृष्टेतरभेदभिन्नमनुभागबन्धस्वामित्वम्, इदानी घात्यघातिप्रकृतिप्ररूपणावसरः, तत्र प्रकृतयः सामान्येन तावत् त्रिधा भवन्ति । सर्वघातिन्यो देशघातिन्योऽघातिन्यश्च तत्र सर्वघातिनीस्तावदाह केवलनाणावरणं दंसणछक्कं च मोहबारसगं । ता सव्वघाइसन्ना हवंति मिच्छत्तवीसइमं ॥८॥ केवलज्ञानावरणं निद्रापञ्चककेवलदर्शनावरणलक्षणं दर्शनषट्कं मोहनीयकर्मणः सम्बन्धिनः सञ्चलनवर्जा द्वादश कषाया इत्येकोनविंशतिस्तावद्विशतितमं तु मिथ्यात्वमेता विंशतिप्रकृतयः सर्वघातिसञ्ज्ञा भवन्ति, स्वावार्यगुणं सर्वमपि घातयन्तीति कृत्वा । तथाहि केवलज्ञानावरणस्य केवलज्ञानलक्षणो गुण आवार्यस्तं च सर्वमेव तदावृणोति, किन्त्वेकोऽनन्तभागः केवलस्य सर्वजीवानामनावृत्त एवास्ते, तदावरणे अस्य सामर्थ्याभावात् । तर्हि कथं सर्वघातित्वं तस्येति चेत् ? उच्यते, यथा बहलमेघपटले समुन्नते बह्वावृत्तत्वात्सर्वापि सूर्यचन्द्रमसोः प्रभाऽनेनावृत्तेति वचः प्रवर्त्तते । अथवाऽद्यापि काचित् तत्प्रभा प्रसरति । “सुट्ट वि मेहसमुदए होइ पहा चंदसूराणम्''इति वचनात्, अनुभवसिद्धत्वाच्च, यथा वा राज्ञाऽस्य सर्वस्वापहारः कृत इति वचन १. सुष्ट्वपि मेघसमुदये भवति प्रभा सूर्यचन्द्रमसोरिति । २४५
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy