________________
बन्धशतक प्रकरणम्
सागरोपमकोटीकोटिलक्षणां स्थितिं बध्नाति । ततोऽन्तर्मुहूर्त्ताद्विशुद्धः पुनरपि स्थिरादिका प्रतिपक्षभूताः बध्नाति, ततः पुनरप्यस्थिरादिका इत्येवं परावृत्त्य तावद् बन्धो लभ्यते यावन्मिथ्यादृष्टिगुणस्थाने स्थिरादीनामुत्कृष्टा स्थितिः । एतेषु च सम्यग्दृष्टिमिथ्यादृष्टियोग्येषु स्थितिस्थानेषु जघन्यानुभागबन्धो लभ्यते, नान्यत्र । दशसागरोपमकोटाकोटिपरतो ह्यस्थिरादय एवाशुभप्रकृतयो बहुरसा बध्यन्ते । अप्रमत्तादयस्तु विशुद्धाः स्थिरादिकाः शुभप्रकृतीरेव बहुरसा निवर्त्तयन्ति इति नान्यत्र जघन्यानुभाग आसां लभ्यत इति । शेषभावना तु सातासातवद्वाच्या । 'परियत्तमाण' इत्याद्युत्तरार्द्ध मनुष्यद्विकसंस्थानषट्कसंहननषट्कविहायोगतिद्विकसुभगदुर्भगस्वरदुःस्वरादेयानादेयोच्चैर्गोत्रलक्षणास्त्रयोविंशतिप्रकृतीः परावृत्त्य बध्नन्तश्चतुर्गतिका अपि मिथ्यादृष्टयो मध्यमपरिणामा जघन्यरसाः कुर्वन्ति । सम्यग्दृष्टीनां ह्येतासां परावृत्तिर्नास्ति । तथाहि तिर्यङ्मनुष्यास्तावत्सम्यग्दृष्टयो देवद्विकमेव बध्नन्ति, न मनुष्यादिद्विकानि, संस्थानेषु तु समचतुरस्रमेव रचयन्ति, न शेषाणि, संहननं तु किञ्चिदपि न बध्नन्ति, तथा शुभविहायोगतिसुभगसुस्वरादेयोच्चैर्गोत्राण्येव च बध्नन्ति न प्रतिपक्षान् । देवनारका अपि सम्यग्दृष्टयो मनुष्यद्विकमेव बध्नन्ति, न तिर्यद्विकादिकम् । संस्थानेषु तु समचतुरस्रमेव रचयन्ति, न शेषाणि, संहननेषु तु वज्रर्षभनाराचमेव, विहायोगत्यादिका अपि शुभा एव बध्नन्ति न प्रतिपक्षभूता इति तेषां परावृत्त्यभावान्मिथ्यादृष्टिग्रहणम् । तत्र मनुष्यद्विकस्य पञ्चदशसागरोपमकोटाकोट्य उत्कृष्टा स्थितिः । प्रशस्तविहायोगतिसुभगसुस्वरादेयोच्चैर्गोत्रवज्रर्षभनाराचसमचतुरस्राणां तु दश । एताः | शुभप्रकृतयो आत्मीयात्मीयोत्कृष्टस्थितेरारभ्य प्रतिपक्षप्रकृतिभिः सह तावत्परावृत्त्य बध्यन्ते, यावत्तासामेव प्रतिपक्षप्रकृतीनां
गा.-७९
२४२