SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् AAAA बध्नाति, ततोऽन्तर्मुहूर्त्तात् परावृत्त्य सातं बध्नाति, पुनरप्यसातमित्येवं देशविरताविरतमिश्रसास्वादनमिथ्यादृष्टयोऽपि परावृत्त्य सातासाते बध्नन्ति, तत्र च मिथ्यादृष्टिः सातासाते परावृत्त्य तावद् बध्नाति, यावत् सातस्य पञ्चदश सागरोपमकोटाकोटीलक्षणा उत्कृष्टा स्थितिः । ततः परतोऽपि सङ्क्लिष्टतरः सक्लिष्टतमोऽसातमेव केवलं तावद् बध्नाति यावत् त्रिंशत्सागरोपमकोटीकोट्यः । प्रमत्तादपि परतोऽप्रमत्तादयो विशुद्धा विशुद्धतराः सातमेव केवलं बध्नन्ति, यावत् सूक्ष्मसम्पराये द्वादश मुहूर्तास्तदेवं व्यवस्थिते सातस्य समयोनपञ्चदशसागोपमकोटाकोटिलक्षणायाः स्थितेरारभ्यासातेन सह परावृत्त्य बनतो जघन्यानुभागबन्धोचितः परावर्त्तमानमध्यपरिणामस्तावल्लभ्यते, यावत्प्रमत्तगुणस्थानकेऽन्तःसागरोपमकोटाकोटिलक्षणा सर्वजघन्याऽसातस्थितिः । एतेषु हि सम्यग्दृष्टिमिथ्यादृष्टियोग्येषु स्थितिस्थानेषु प्रकृतेः प्रकृत्यन्तरसङ्क्रमे मन्दः परिणामो जघन्यानुभागबन्धयोग्यो लभ्यते नान्यत्र । तथाहि-येऽप्रमत्तादयः सातमेव केवलं बध्नन्ति, ते विशुद्धत्वात्तस्यप्रभूततमनुभागमुपकल्पयन्ति । योऽपि मिथ्यादृष्टिः सातस्योत्कृष्टां स्थितिमतिकान्तोऽसातमेव केवलमुपरचयति, सोऽप्यतिसङ्क्लिष्टत्वात् तस्य प्रभूतं रसमभिनिर्वर्त्तयति । सागरोपमसप्तभागत्रयादिरूपवेदनीयस्थितिबन्धकेष्वेकेन्द्रियादिष्वपि जघन्यानुभागबन्धो न सम्भवति, तथाविधाध्यवसायाभावात्, तस्माद्यथोक्तस्थितिबन्ध एव जघन्यानुभागबन्धसम्भवस्तथाविधपरिणामसद्भावादित्यलं विस्तरेण इति । अस्थिराशुभायश:कीर्तीनां विंशतिसागरोपमकोटीकोट्यः स्थिरशुभयश:कीर्तीनां तु दश सागरोपमकोटीकोट्यः उत्कृष्टा स्थितिः पूर्वमेवोक्ता, तत्र प्रमत्तसंयतस्तत्प्रायोग्यविशुद्धोऽस्थिराशुभायश:कीर्तीनां सम्यग्दृष्टियोग्यस्थितिषु सर्वजघन्यामन्तः २४१
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy