________________
बन्धशतक प्रकरणम्
आसोहम्मायावं अविरयमणुओ य जयइ तित्थयरं । चउगइ उक्कड मिच्छा पन्नरस दुवे विसोहीए ॥७८॥
इह सौधर्मग्रहणेन समश्रेणिव्यवस्थितत्वादीशानोऽपि गृह्यते । ततश्च भवनपत्यादय ईशानपर्यन्ता देवास्तद्बन्धकेषु सर्वसङ्क्लिष्टा एकेन्द्रियप्रायोग्यं बध्नन्त आतपनाम जघन्यानुभागयुक्तं बध्नन्ति, अस्य हि शुभप्रकृतित्वात् सर्वसङ्क्लिष्ट एव जघन्यानुभागं बध्नाति, तद्बन्धकेषु चैत एव सर्वसङ्क्लिष्टा लभ्यन्ते । तिर्यमनुष्या ह्येतावति सङ्क्लेशे वर्त्तमाना नरकादिप्रायोग्यं रचयेयुः, नरकाः सनत्कुमारादिदेवाश्च भवप्रत्ययादेवैतन्न बध्नन्तीति शेषपरिहारेण यथोक्तदेवानामेव ग्रहणम् । 'अविरयमणुओ य जयइ तित्थयरं ति चकारोऽनुक्तविशेषणसूचकस्ततश्चाविरतसम्यग्दृष्टिर्नरके बद्धायुष्को नरकोत्पत्त्यभिमुखोऽनन्तरमेव मिथ्यात्वं प्रतिपित्सुर्मनुष्यस्तीर्थकरनाम्नो जघन्यानुभागं बध्नाति, तद्बन्धकेष्वयमेव सर्वसङ्क्लिष्ट इति कृत्वा । विशेषणबहुत्वस्य तु साफल्यं यथोत्कृष्टा स्थितिबन्धाधिकारे 'देवाउयं पमत्तो' इत्यादिगाथाविवरणेऽस्यैव कर्मणो विचारे भावितस्तथाऽत्रापि भावनीयम् । 'चउगड़ उक्कड मिच्छा पन्नरस त्ति पञ्चेन्द्रियजातितैजसकार्मणप्रशस्तवर्णादिचतुष्कागुरुलघुपराघातोच्छ्वासत्रसबादरपर्याप्तकप्रत्येकनिर्माणमित्येतासां पञ्चदशप्रकृतीनां चतुर्गतिका अपि जीवा मिथ्यादृष्टयः सर्वोत्कटसङ्क्लेशा
१. गाथा ७२ ।
गा.-७८
२३८