________________
बन्धशतक प्रकरणम्
स्थावरनाम्नी बद्ध्वा पुनर्द्वितीयेऽपि अन्तर्मुहूर्ते ते एव बध्नाति तदापि भवति, केवलं तदा अवस्थितपरिणामे तथाविधा विशुद्धिर्न लभ्यते इति मध्यमपरिणामस्यापि परावर्त्तमानताविशेषणम्, इदमुक्तं भवति - यदैकेन्द्रियजातिस्थावरे बद्ध्वा पञ्चेन्द्रियजातित्रसनाम्नी बध्नाति ते अपि बद्ध्वा पुनरेकेन्द्रियजातिस्थावरे बध्नाति तदेवं परावृत्त्य परावृत्य बध्नन् परावर्त्तमानमध्यमपरिणामस्त्प्रायोग्यविशुद्धः प्रस्तुतप्रकृतिद्वयस्य जघन्यानुभागं बध्नातीति ।
भवत्वेवं, तथापि नारकवर्जनं किमर्थमिति चेत् ? उच्यते, नारकाणां स्वभावादेव प्रस्तुतप्रकृतिद्वयबन्धत्वासम्भवादित्यलं विस्तरेणेति गाथार्थः ॥७७॥
भा० एगिंदियथावरगं ई गाहाए उ मज्झपरिणामा । जं भणियं तत्थ इमो भावत्थो पयडिदुगमेयं ॥ ६४८ ॥
अभं अईकिलिट्टो एयणुभागं विहेइ उक्किट्ठे । अइसुद्धो उ पणिदिय तसं च एवं पयडिजुयलं ॥६४९ ॥ उक्कोसं अणुभागं विइ ई मज्झिमस्स इह गहणं । परिवत्तमाणया पुण विभावियव्वा इहं एवं ॥६५० ॥ जझ्या इगिंदिथावरजुयलं बंधित्तु पुणवि बंधेड़ । पंचिदियजाइतसं पुणो वि एगिंदिथावरगं ॥६५१ ॥ बंधइ तया उ परियत्तमाणया इह च सो उ तज्जोगे । सुविसुद्धो पयडिदुगं मंदणुभागं विइत्ति ॥६५२॥
गा.-७७
२३७