________________
बन्धशतक प्रकरणम्
| रचयन्ति । नरकद्विकस्याशुभप्रकृतित्वाज्जघन्यस्थितिबन्धकाले तद्बन्धकेषु सर्वविशुद्धा एते जघन्यानुभागं विदधति । देवद्विकस्य शुभप्रकृतित्वादात्मीयोत्कृष्टस्थितिबन्धकाले तत्प्रायोग्यसङ्क्लिष्टा अमी जघन्यानुभागं बध्नन्ति, अतिसङ्क्लिष्टो नरकादियोग्यं बध्नीयादिति तत्प्रायोग्यसङ्क्लेशग्रहणम्, एवमन्यत्रापि द्रष्टव्यम् । वैक्रियद्विकस्यापि शुभप्रकृतित्वान्नरकगतिबन्धसहितां सर्वोत्कृष्टां स्थितिं बध्नन्तो जघन्यानुभागं निर्वर्त्तयन्ति । विकलत्रिकसूक्ष्मत्रिकयोस्त्वशुभप्रकृतित्वात्तत्प्रायोग्यविशुद्धा अमी सर्वजघन्यानुभागं बध्नन्ति, अतिविशुद्धा मनुष्यादिप्रायोग्यं बध्नन्तीति तत्प्रायोग्यविशुद्धिग्रहणमिति भाविताः षोडशापि प्रकृतयः । 'सुरनारगतमतमा तिन्नि' त्ति तिस्रः सुरनारकास्तिस्त्रश्च तमस्तमका जघन्यरसाः कुर्वन्तीति प्रत्येकं सम्बन्धस्ततश्चेदमुक्तं भवति औदारिकद्विकोद्योतलक्षणास्तिस्रः प्रकृती: सामान्यतः सुरा नारकाश्च सर्वोत्कृष्टसङ्क्लेशे वर्त्तमानास्तिर्यक्प्रायोग्यं बध्नतः सर्वजघन्यरसाः कुर्वन्तीति केवलमौदारिकाङ्गोपाङ्गमीशानादुपरितनाः सनत्कुमारादय एव देवा जघन्यरसं कुर्वन्ति, | नेशानान्ता:, ते हि सर्वोत्कृष्टसङ्क्लेशे वर्त्तमाना एकेन्द्रिययोग्यमेव बध्नन्ति । एकेन्द्रियाणां चाङ्गोपाङ्गं न भवति, अत ईशानान्तदेवानां जघन्यरसाङ्गोपाङ्गनामबन्धासम्भवेन तज्जघन्यरसबध्नकत्वासम्भवः ।
भवत्वेवं, किन्तु तिर्यङ्मनुष्याः कस्मादिदं प्रकृतित्रयं जघन्यरसं न कुर्वन्ति ? अत्रोच्यते एतत्प्रकृतित्रयं तिर्यग्गतिप्रायोग्यबन्धसहचरितं जघन्यरसं बध्यते, तिर्यग्मनुष्यास्त्वेतावति सङ्क्लेशे वर्त्तमाना नरकगतिप्रायोग्यमेव रचयेयुरिति तेषामिहाग्रहणम् । | तिर्यग्विकनीचैर्गोत्रलक्षणास्तिस्रः प्रकृतीर्जघन्यरसास्तमस्तमस्काऽधः सप्तमपृथ्वीनारकाः कुर्वन्ति । तथाहि कश्चित् सप्तमपृथ्वी
गा.-७६
२३३