SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ मंदणुभागा पकरइ गा.-७६ बन्धशतकप्रकरणम् आहारमप्पमत्तो पमत्तसुद्धो उ अरसोगाणं । सोलस माणुसतिरिया सुरनारगतमतमा तिन्नि ॥७६॥ आहारकद्विकमप्रमत्तसंयतोऽनन्तरमेव प्रमत्तभावं प्रतिपित्सुर्जघन्यरसं करोतीति । इदं हि प्रकृतिद्वयं शुभरूपत्वात् सङ्क्लिष्ट एव जघन्यरसं करोति, तद्बन्धकेषु त्वयमेवातिसङ्क्लिष्ट इति भावः । अरतिशोकयोः शुद्धोऽप्रमत्तभावाभिमुखः प्रमत्तयतिर्जघन्यानुभागं करोति, इदं हि प्रकृतिद्वयमशुभत्वात् सर्वविशुद्ध एव जघन्यरसं करोति, तद्बन्धकेषु त्वयमेव सर्वविशुद्ध इति भावः । आयुश्चतुष्टयनरकद्विकदेवद्विकवैक्रियद्विकविकलत्रिकसूक्ष्मापर्याप्तकसाधारणलक्षणाः षोडशप्रकृतीर्मनुष्यास्तिर्यञ्चश्च जघन्यरसाः कुर्वन्ति । अत्र हि तिर्यङ्मनुष्यायुयं वर्जयित्वा शेषाश्चतुर्दशप्रकृतीर्देवनारका भवप्रत्ययादेव न बध्नन्ति । तिर्यङ्मनुष्यायुर्द्वयमपि यदा जघन्यस्थितिकं बध्यते तदा जघन्यरसं क्रियते, देवनारकास्तु तज्जघन्यं न बध्नन्ति, एतत्स्थितिकेषु | तेषामुत्पत्त्यभावात् । तस्मान्नैतत्प्रकृतिषोडशकं देवनारका बनन्ति, अतस्तिर्यङ्मनुष्याणामेव ग्रहणम् । तत्र नारकायुषोऽशुभ-- प्रकृतित्वात् तद्बन्धकेषु सर्वविशुद्धा दशवर्षसहस्रलक्षणजघन्यस्थितिबन्धकाले जघन्यानुभागं तिर्यङ्मनुष्याः कुर्वन्ति । शेषस्य - त्वायुस्त्रयस्य शुभप्रकृतित्वात् तद्बन्धकेषु सर्वसङ्क्लिष्टा आत्मीयात्मीयसर्वजघन्यस्थितिबन्धकाले अमी जघन्यानुभागं २३२
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy