________________
बन्धशतक प्रकरणम्
| बन्धव्यवच्छेदसमये क्षपकानिवृत्तिबादरो जघन्यानुभागं बध्नाति । निवृत्तिक्षपकापूर्वकरणो निद्राप्रचलाऽप्रशस्तवर्णादिचतुष्कोपघातहास्यरतिभयजुगुप्सालक्षणानामेकादशप्रकृतीनामेकैकस्मिन्नात्मीयात्मीयबन्धव्यवच्छेदसमये जघन्यानुभागं बध्नाति, | हेतुः स एव । स्त्यानद्धित्रिकमिथ्यात्वसञ्चलनवर्जकषायद्वादशकलक्षणाः षोडशप्रकृतीर्मन्दानुभागा जघन्यरसा अनेकार्थत्वाद्यत करोति, क इत्याह- 'संजमगुणपत्थिओ 'त्ति संयमगुणं प्रस्थितोऽभिमुखीभूतः संयमगुणप्रस्थितः । स चेह मिथ्यादृष्टिरविरतो देशविरतश्च गृह्यते । तत्र स्त्यानर्द्धित्रिकमिथ्यात्वानन्तानुबंधिचतुष्टयलक्षणानामष्टानां प्रकृतीनां चरमसमये मिथ्यादृष्टिरनन्तरसमये सम्यक्त्वं संयमं च युगपत् प्रतिपित्सुर्जघन्यानुभागं बध्नाति हेतुः स एव । अप्रत्याख्यानावरणचतुष्टस्य त्वविरतसम्यग्दृष्टिः, प्रत्याख्यानावरणचतुष्टयस्य तु देशविरतः पृथक् स्वगुणस्थानचरमसमये वर्त्तमानोऽनन्तरमेव संयमं प्रतिपित्सुर्जघन्यानुभागं बध्नाति, तद्बन्धकेष्वतिविशुद्धत्वलक्षणो हेतुः सर्वत्र वाच्य इति गाथार्थः ॥ ७५ ॥
भा० चोद्दस सुहुमसरागे ( चोइससरागचरिमे ) ई पभिईगाहपंचगे जे जे । जप्पयsिबंधगा हुंति ताओ पयडिओ पिंडियया ॥ ६०७ ॥
जाता पिंडियवोच्छंतो चउदस पण इगार सोलसगं । दुदुसोलतिदुदुपनरसअट्ठतेवीसई ठाणा ||६०८ || संपइ एयाओ चिय जहन्नणुभागाउ पयडिओ अहयं । दंसियकमेण विवरेमि ता इमाओ पुणो एवं ॥ ६०९ ॥ नाणंतरायदसगं दंसण चउ हुंति चउदसा एवं । पुंसंजलणा पंच उ अपसत्थयवन्नया चउरो ॥ ६१० ॥
गा.-७५
२३०