________________
गा.-७४
बन्धशतकप्रकरणम्
भणितशेषाणां ज्ञानावरणपञ्चकदर्शनावरणनवकासातमिथ्यात्वकषायषोडशनोकषायनवकाद्यवय॑संस्थानपञ्चकाद्यन्तवर्जसंहननचतुष्काप्रशस्तवर्णादिचतुष्कोपघाताप्रशस्तविहायोगत्यस्थिराशुभदुर्भगदुःस्वरानादेयायश:कीर्तिनीचैर्गोत्रान्तरायपञ्चकलक्षणा नामष्टषष्ट्यशुभप्रकृतीनां चतुर्गतिका अपि नियमान्मिथ्यादृष्टयस्तीव्रकषायोत्कटा जीवास्तीव्रमुत्कृष्टानुभागं बजन्ति । तत्र हास्यरतिस्त्रीपुंवेदाद्यन्तवर्जसंहननसंस्थानलक्षणा द्वादशप्रकृतीवर्जयित्वा शेषाः षट्पञ्चाशत्प्रकृतीरुत्कृष्टरसाः सर्वोत्कृष्टसङ्क्लेशा अमी बध्नन्ति । निदर्शितद्वादशप्रकृतीस्तूत्कृष्टारसास्तत्प्रायोग्यसङ्क्लिष्टा बध्नन्तीति द्रष्टव्यम् । सर्वोत्कृष्टसङ्क्लेशो हि तावद्धास्यरतियुगलमतिक्रम्यारतिशोकयुगलमेव रचयति । स्त्रीपुंवेदौ त्वतिक्रम्य नपुंसकवेदं निर्वर्त्तयति । संस्थानसंहननेष्वपि सर्वसङ्क्लिष्टो विंशतिसागरोपमकोटाकोटीस्थितिके हुंडसेवार्ने निर्वर्त्तयति । ततो विशुद्धोऽष्टादशसागरोपमकोटाकोटीस्थितिके वामनकीलिके रचयति । ततो विशुद्धतर: षोडशसागरोपमकोटाकोटीस्थितिके कुब्जार्द्धनाराचे बध्नाति, ततोऽपि विशुद्धश्चतुर्दशसागरोपमकोटाकोटिस्थितिके सादिनाराचे निवर्तयति । ततो विशुद्धो द्वादशसागरोपमकोटाकोटिस्थितिके न्यग्रोधर्षभनाराचे बध्नाति । ततो विशुद्धो दशसागरोपमकोटाकोटिस्थितिके समचतुरस्रवज्रर्षभनाराचे बध्नाति । तस्मादाद्यन्तवर्जसंस्थानचतुष्टयस्य तथाद्यन्तवर्जसंहननचतुष्टयस्य चात्मीयात्मीयोत्कृष्टस्थितिबन्धकाले तत्प्रायोग्यसङ्क्लेशयुक्ता अमी उत्कृष्टानुभागं बध्नन्ति । हीनाधिकसङ्क्लेशे अन्यान्यबन्धसम्भवात् तत्प्रायोग्यसङ्क्लेशग्रहणमिति भावः ।।
आद्यन्तसंस्थानसंहननवर्जनं किमर्थमिति चेत् ? उच्यते-हुण्डसंस्थानं तावत् अस्यामेव गाथायामुत्कृष्टसङ्क्लेशेषु गृहीतम् ।
प
२२५