________________
गा.-७३
बन्धशतकप्रकरणम्
मिथ्यात्वाधःस्थितिवेदनस्य चरमसमये उद्योतस्योत्कृष्टानुभागं बध्नाति । इदं हि शुभप्रकृतित्वाद्विशुद्ध एवोत्कृष्टरसं करोति, तबन्धकेषु त्वयमेव सर्वविशुद्धोऽन्यस्थानवर्ती ह्येतावत्यां विशुद्धौ वर्तमानो मनुष्यप्रायोग्यं देवप्रायोग्यं वा बध्नीयाद्, इदं तु तिर्यग्गतिप्रायोग्यबन्धसहचरितमेव बध्यते इति सप्तमपृथ्वीनारकस्यैवोपादानम्, तत्र हि यावत् किञ्चिदपि मिथ्यात्वमस्ति तावत्क्षेत्रानुभावत एव तिर्यक्प्रायोग्यमेव बध्यत इति भावः । 'सुरनेड्या भवे तिण्हं'ति तिर्यग्द्वयसेवार्तसंहननलक्षणप्रकृतित्रयस्य सुरा नारका वा अत्यन्तसङ्क्लिष्टा उत्कृष्टानुभागबन्धका भवन्ति । तिर्यङ्मनुष्या ह्येतावति सङ्क्लेशे वर्तमाना नरकगतिप्रायोग्यमेव निवर्त्तयेयुः, न च तद्योग्या एताः प्रकृतयो बध्यन्त इति तद्व्युदासेन देवनारकाणां ग्रहणम् । ते हि सर्वसङ्क्लिष्टा अपि तिर्यग्गतिप्रायोग्यमेव बध्नन्तीति । इह च व्याख्यानतो विशेषप्रतिपत्तेः सेवार्तस्येशानादुपरि सनत्कुमारादयो देवा उत्कृष्टानुभागं बध्नन्तीति न तु ईशानान्ताः, ते ह्यतिसङ्क्लिष्टा एकेन्द्रियप्रायोग्यमेव रचयेयुर्न च तद्योग्यमिदं बध्यत इति गाथार्थः ॥७३॥ भा० देवाउमप्पमत्तो तिव्वं खवगा उ इच्चाइ ॥५५९॥
तस्सत्थो खवगापुव्वसुहुमया बंधयंति जहजोगं । उक्कोसरसाइ बत्तीस पगइओ ता य पुण एया ॥५६०॥ देवदुगाहारदुगे वेउव्विदुगं पसत्थवनचऊ । अगुरुलहू ऊसासं परघायपसत्थविहगगई ॥५६१॥ तेयाकम्मनिम्माणं समचउरंसं च तित्थपंचिंदी । तसदसगं सा उच्चं पगई बत्तीस इय हुंति ॥५६२॥
२२३