SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् उत्कृष्टरसं जन्यते । सापि विशुद्धिर्यद्यधिकतरा गृह्येत, तदा पञ्चेन्द्रियतिर्यक्प्रायोग्यं मनुष्यप्रायोग्यं वा बध्नीयात्, न चातपं तत्प्रायोग्यबन्धे बध्यते, एकेन्द्रियप्रायोग्यत्वादेवेत्यालोच्य तत्प्रायोग्यविशुद्धत्वविशेषणोपादानम् । आह, ननु भवत्वेवं, किन्तु मिथ्यादृष्टिर्देव एवैतास्तिस्र उत्कृष्टरसाः करोति, नान्य इत्यत्र किं निबन्धनम् ? अत्रोच्यते, नारकाणां तावदेता एकेन्द्रियप्रायोग्यत्वात्तत्रोत्पत्त्यभावात् बन्ध एव नागच्छन्ति, तिर्यङ्मनुष्यास्तु यावत्यां विशुद्धौ वर्त्तमाना आतपमुत्कृष्टरसं कुर्वन्ति, तावत्यां विशुद्धौ वर्त्तमानाः पञ्चेन्द्रियतिर्यगादिप्रायोग्यमन्यत्किञ्चिच्छुभतरं रचयेयुः । यावति च सङ्क्लेशे वर्त्तमानोऽसावेकेन्द्रियजातिस्थावरयोरुत्कृष्टानुभागं बध्नाति तावति सङ्क्लेशे स्थिता अमी नरकगतिप्रायोग्यं निर्वर्त्तयेयुः । देवास्तूत्कृष्टसङ्क्लेशेऽपि भवप्रत्ययादेकेन्द्रियप्रायोग्यमेव बध्नन्ति, न तु नरकयोग्यमिति । तिर्यङ्मनुष्याणामपि प्रकृतकर्मत्रयोत्कृष्टानुभागबन्धकत्वासम्भवः, सुरोऽपि सम्यग्दृष्टिर्मनुष्ययोग्यं बध्नातीति मिथ्यादृष्टिग्रहणम् । तस्मादीशानान्तो | मिथ्यादृष्टिर्देवो यदा आतपस्य सर्वलघ्वीं स्थितिमुपकल्पयति, तदा तद्बन्धकेष्वतिविशुद्धोऽस्योत्कृष्टानुभागं करोति । यदा तूत्कृष्टसङ्क्लेशे वर्त्तमान एकेन्द्रियजातिस्थावरयोः सर्वोत्कृष्टां स्थितिं करोति तदाऽनयोरुत्कृष्टानुभागं रचयतीति स्थितम् । 'उज्जोयं तमतमग'त्ति तमस्तमाधः सप्तमनरकपृथ्वी तदाधारा नारकास्तमस्तमका उच्यन्ते । अमी उद्योतनामकर्मण उत्कृष्टानुभागं बध्नन्ति । तथाहि कश्चित् सप्तमपृथ्वीनारको यथाप्रवृत्तादीनि त्रीणि करणानि कृत्वाऽनिवृत्तिकरणस्थितो मिथ्यात्वस्याऽन्तरकरणं करोति, तत्र च ( तस्मिश्च) कृते मिथ्यात्वस्य पूर्वदर्शितन्यायेन स्थितिद्वयं भवति । तत्र गा.-७३ २२२
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy