SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ बन्धशतकप्रकरणम् | सूक्ष्मत्रिकलक्षणानां षट्प्रकृतीनामेत एव तत्प्रायोग्यसङ्क्लिष्टा उत्कृष्टानुभागं बध्नन्ति, सर्वसङ्क्लिष्टा ह्यमी प्रस्तुतप्रकृतिबन्धमुल्लङ्घ्य नरकप्रायोग्यं निवर्तयेयुरिति तत्प्रायोग्यसङ्क्लेशग्रहणमिति गाथार्थः ॥७२॥ पंच सुरसम्मद्दिट्ठी सुरमिच्छो तिन्नि जयइ पयडीओ । उज्जोयं तमतमगा सुरनेरड्या भवे तिण्हं ॥ ७३ ॥ मनुष्यद्विकौदारिकद्विकवज्रर्षभनाराचलक्षणानां पञ्चानां प्रकृतीनां सम्यग्दृष्टिर्देवोऽत्यन्तविशुद्ध उत्कृष्टानुभागमेकं द्वौ वा समयौ यावद् बध्नाति, मिथ्यादृष्टेः सम्यग्दृष्टिरनन्तगुणविशुद्ध इति सम्यग्दृष्टेर्ग्रहणम् । नारका अपि च विशुद्धाः सन्त एताः प्रकृतीबध्नन्ति, केवलं वेदनानिवहविह्वलीकृतत्वादमरवत्प्रकृष्टभावनिबन्धनतीर्थकरादिसमृद्धिसन्दर्शनतद्वचः श्रवणनन्दीश्वरादिचैत्यदर्शनाद्यसम्भवाच्च तथाविधविशुद्ध्यभावात् तेषामिहाग्रहणम् । तिर्यङ्मनुष्याणां त्वतिविशुद्धानां देवगतिप्रायोग्यबन्धकत्वात्तद्योग्यप्रस्तुतप्रकृतिबन्धासम्भव इति सर्वव्युदासेन देवस्यैवोपादानम् । 'सुरमिच्छो' इत्यादि एकेन्द्रियजात्यातपस्थावरलक्षणप्रकृतित्रयस्य सुरो मिथ्यादृष्टिरुत्कृष्टानुभागं बध्नाति । अत्र चाविशेषोक्तावपि सुर ईशानान्त एव द्रष्टव्यः, | उपरितनानामेकेन्द्रियेषूत्पत्त्यभावात्, तद्योग्यप्रस्तुतप्रकृतित्रयबन्धासम्भवात् । अयमपि चैशानान्तो देव एकेन्द्रियजातिस्थावरयोरुत्कृष्टानुभागं सर्वसङ्क्लिष्टो बध्नाति आतपस्य तु तत्प्रायोग्यविशुद्ध इति द्रष्टव्यम्, इदं हि शुभप्रकृतित्वाद्विशुद्धा गा.-७३ २२१
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy