________________
बन्धशतक प्रकरणम्
देवायुस्तीव्रमुत्कृष्टरसं अप्रमत्तयतिर्बध्नाति, अपरेभ्यो देवायुर्बन्धकमिथ्यादृष्ट्यविरतसम्यग्दृष्ट्यादिभ्यो ऽस्यानन्तगुणविशुद्धत्वात् । तथा सातदेवद्विकपञ्चेन्द्रियजातिवैक्रियद्विकाहारकद्विकतैजसकार्मणसमचतुरस्रप्रशस्तवर्णादिचतुष्कागुरुलघुपराघातोच्छ्वासप्रशस्तविहायोगतित्रसादिदशकनिर्माणतीर्थकरोच्चैर्गोत्रलक्षणानां द्वात्रिंशतः प्रकृतीनामुत्कृष्टानुभागं यथासम्भवं क्षपकौ सूक्ष्मसम्परायापूर्वकरणलक्षणौ कुरुत: । अपूर्वकरणो मोहनीयमक्षपयन्नपि योग्यतया क्षपक उक्त इति द्रष्टव्यम् । तत्र सातयशः कीर्त्य च्चैर्गोत्रलक्षणप्रकृतित्रयस्य क्षपकसूक्ष्मसम्परायश्चरमसमये वर्त्तमान उत्कृष्टानुभागं बध्नाति, स्वगुणस्थानशेषसमयेभ्योऽन्येभ्यश्च तद्बन्धकेभ्योऽस्यानन्तगुणविशुद्धत्वादिति । शेषाणां त्वेकोनत्रिंशतः प्रकृतीनां क्षपकापूर्वकरणो देवगतिप्रायोग्यबन्धव्यवच्छेदसमये वर्त्तमानस्तीव्रमनुभागं बध्नाति तद्बन्धकेष्वस्यैवातिविशुद्धत्वादिति । 'बंधंति तिरिय● मणुये 'त्यादि नारकतिर्यङ्मनुष्यायूंषि नरकद्विकं विकलत्रिकं सूक्ष्ममपर्याप्तकं साधारणमित्येतासामेकादशप्रकृतीनां मिथ्याभावेनोपलक्षिता मिथ्यादृष्टयस्तिर्यग्मनुष्या एवोत्कृष्टानुभागं बध्नन्ति न देवनारका इत्यर्थः । तथाहि - तिर्यङ्मनुष्यायुर्वज | नवप्रकृतीर्भवप्रत्ययेनैव देवनारका न बध्नन्ति । तिर्यङ्मनुष्यायुषी अप्यत्र भोगभूमियोग्ये उत्कृष्टरसे प्रकृते । अतस्तेऽप्यमी न बध्नन्ति कुतस्तेषां तदनुभागबन्धसम्भवः । तस्मात्सञ्ज्ञिनो मिथ्यादृष्टयस्तिर्यङ्मनुष्या एव तत्प्रायोग्यविशुद्धा एते आयुषी बध्नन्ति । नरकायुषस्तु तत्प्रायोग्यसङ्क्लिष्टा उत्कृष्टरसं बध्नन्ति, अतिसङ्क्लिष्टस्यायुर्बन्धनिषेधात् । नरकद्विकं त्वेत एव & सर्वसङ्क्लिष्टा बध्नन्ति, एकं द्वौ वा समयौ यावदुत्कृष्टसङ्क्लेशस्यैतावन्मात्रकालत्वादेव । शेषाणां तु विकलत्रिक
गा.-७२
२२०